🕉️ 20 November 2026, Friday · 10:45:20 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

इलावृत
ilāvṛta
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
इला˚वृत m. N. of a son of Āgnīdhra (who received the Varṣa Ilāvṛta as his kingdom)
इला—˚वृत n. one of the nine Varṣas or divisions of the known world (comprehending the highest and most central part of the old continent, cf. वर्ष), MBh.; BhP.; MārkP.; VP. &c.
📄 मूल मुद्रित पृष्ठ (168,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
इलावृत न० इला पृथिवीवावृतं निषधादिभिः । नवव- र्षात्मकजम्बुद्वीपस्य वर्षभेदे तच्च वर्षम् “पश्चान्माल्यवतः, प्राच्यां गन्घमादनशैलतः । इलावृतं नीलगिरेर्याम्यतो, निषधादुदक्” इत्युक्त चतुःसीमावच्छिन्ने देशेऽस्ति । “माल्यवांश्च [] यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः । नीलशैलनि- षधावधी च तावन्तरालमनयोरिलावृतम् । निषधनीलसुग- न्धसुमाल्यकैरलमिलावृतमावृतमाबभौ । अमरकेलिकुलाय- समाकुलं रुचिरकाञ्चनचित्रमहीतलम्” सि० शि० । “एतेन भारतभिलावृतवद् विभाति” माघः । इलावृतस्थपर्व्वता- दिवर्ण्णनम् । भाग० ५ स्क० ६ अ० । “एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपायामसमुन्नाहः कर्णि- काभूतः कुवलयकमलस्य मुर्द्धनि द्वात्रिंशत्सहस्रयोजन- विततो मूले षोडशसाहस्रं तावतान्तर्भूम्यां प्रविष्टः । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयोरम्यक- हिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयोद्विसाहस्रपृथव एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन दैर्घ्यएव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधोहेमकूटो हिमालय इति प्रागा- यता यथा नीलादयः । अयुतयोजनोत्सेधा हरिवर्षकिं- पुरुषभारतानां यथासंख्यम् । तथैवेलावृतमपरेण पू- र्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः । केतुमालभद्राश्वयोः सीमानं विदधाते । मन्द- रोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः । चतुर्ष्वेतेषु चूत जम्बूकदम्बन्यग्रोघाश्चत्वारः पादपप्रवराः पर्वतकेतव इवद्वि- सहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणा- हाः । ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः । यदुप- स्पर्शिन उपदेवगणा योगैश्चर्य्याणि स्वाभाविकानि भरतर- र्षभ! धारयन्ति । देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैम्राजकं सर्वतोभद्रमिति । येष्वमरपरिवृढाः सहसुरललनाललामयूथपतय उपदेवगणैरुपगीयमानम- हिमानः किल विहरन्ति । मन्दरोत्सङ्ग एकादशशत- योजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फला- न्यमृतकल्पानि पतन्ति । तेषां विशीर्य्यमाणानामतिमधुर सुरमिगन्धबहलारुणरसोदेनारुणोदा नाम नदीं मन्दर- गिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति । यदु- पजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्श सुगन्धवातो दशयोजनं समन्तादनुवासयति । एवं जम्बू- फलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय- निभानां रसेन जम्बूनदी नाम मेरुमन्दरशिखरादयुत- योजनादवनितले निपन्ती दक्षिणेनात्मानं यावदिलावृत [] मुपस्यन्दति । तावदुभयोरपि रोधसोर्मृत्तिका तद्रसे- नानुविध्यमाना च वाय्वर्वसंयोगविपाकेन सदामरलोका भरणं जाम्बूनदं नाम सुवर्णं मवति । यदुह वाव विवुधा- दयः सहयुवतिभिर्मुकुटककटिसूत्रकुण्डलाद्याभरणरूपेण खलु धारयन्ति । यस्तु महाकदम्बः सुपार्श्वपार्श्वनिरूढ- स्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः सुमधुराः सुपार्श्वशिखरात् पतन्त्योऽपरेणात्मानमिला- वृतमनुमोदयन्ति । याह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनु वासयति । एवं कुमुदनि- रूढो यः शतवल्लोनाम वटस्तस्थ स्कन्धेभ्योनीचीनाः पयो- दधिमधुघृतगुडान्नादाम्बरशय्यासनाभरणादयः सर्व एव कामदुघानदाः कुमुदाग्रात् पतन्तमुत्तरेणेलावृतमुप- योजयन्ति । यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णवैवर्ण्यो- पसर्गादयस्तापविशेषा भवन्ति । यावज्जीवं सुखं निर- तिशयमेव कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिखरपतङ्गरु
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
इलावृतं, क्ली, (इरया आवृतं ।) जम्बुद्वीपस्य नव- वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः । तच्च सुमेरुपर्ब्बतं संवेष्ट्यास्ते । तस्य सीमा उत्तरे नीलपर्ब्बतः । दक्षिणे निषधः । पश्चिमे माल्य- वान् । पूर्व्वेगन्धमादनपर्ब्बतः । इति श्रीभागवतम् ॥ अग्नीध्रस्य स्वनामख्यातः पुत्रः स तु पितुः सकाशात् इलावृतं नाम वर्षमलभत । यदुक्तं विष्णुपुराणे । २ । १ । १६, १७, १८ । “जम्बुद्वीपेश्वरो यस्तु अग्नीध्रो मुनिसत्तम ! । तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ॥ नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः । रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ॥ केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत्” ॥)
📄 मूल मुद्रित पृष्ठ (1-213-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें