ईर गतौ प्रेरणे च चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । ईरयति ते--ईरति ऐरिरत्--त--ऐरीत् । ईरयाम्--ईराम् वा बभूव आस चकार । ईरयिता । ईरिता ईरयिष्यति- ईरिष्पति । ईरणम् । ईरितः इरयन्--इरन् । ईरः ईर्य्य- [] माणः । “आपः समुद्रमैरयन्” ऋ० ८, ६, १३ । “अंशो- रूर्म्मिमीरय” ऋ० ९, ७९, १४ । “यदस्य शुष्ममैरयन्” ऋ० २, १७, ३ “ऐरिरच्च महाक्रमम्” भट्टिः कथने च । “अथ वाचमीरयति” शत० ब्रा० “ब्रह्मा रथन्तरं साम ईरयति भवान्तिके भा० आनु० १४ अ० । विरोध- वाक्यञ्च यथेर्य्यमाणम्” भा० व० १३३ अ० । “दमयन्त्या यथेरितम्” भा० व० २७४३ । “हितं न गृह्णन्ति सुहृद्भि- रीरितम्” रामा० “इतीरिता पत्ररथेन तेन” इतीरयित्वा विरचय्य वाङ्मयम्” नैष० । उद् उत्क्षेपणे । “उदीरयामासुःसलीलमक्षान्” रघुः । उच्चारणे कथने च “यदशोकोऽऽयमुदीरिष्यति” रघुः । “उदीरयामासुरिवोन्मदानाम्” रघुः । अभि + उद् + आभिमुख्येनोच्चारिते । “आस्तीकस्तिष्ठस्तिष्ठेति वाचस्तिस्रोऽभ्युदैरयन्” मा० अ० २१७१ । सम् + उद् + सम्यगुच्चारे समुत्तीलिते च । पांशवोऽपि कुम- क्षेत्रे वायुना समुदीरिताः” भा० व० ५०७० । प्र + प्रेरणे । प्रेरयति । “समीरणः प्रेरयिता भवेति” कुमा० । “अपः प्रेरय सागरस्य बुध्नात्” अ० १०, ८९, ४ । “किमुद्दिश्य काश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः” शकु० “या- त्रायै प्रेरयामास तं शक्तेः प्रथमं शरत्” रघुः । सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ च “समीरणः । “समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम्” भट्टिः । “ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः” भा० व० १२१८ अ० ।
ईर अदा० आत्म० सक० सेट् । ईर्त्तेईराते ईरते ऐवत ऐरिष्ट ईराम् बभूव आस--चक्रे ईरिष्यति “द्रप्सा मधुमन्त ईरते” ऋ० ५, ६३, १४ “रुशदीर्त्ते पयो गोः” ऋ० ९, ९१, ३ । “अस्मे राजास ईरताम्” ऋ० ४, ८, ७ । वायुप्रच्युतादिवोवृष्टिरीर्त्ते” तैत्ति० । अस्मात् निष्ठाया नेट् । “न हि राज्ञानुदीर्ण्णानाम्” भा० आ० ५१३८ श्लो० । “उदीर्ण्णरागप्रतिरोधकम् मुहुःः” माघः । अस्यैव पक्षे चुरादित्वं तेन न तस्य भ्वादित्वमित्येके ।
📄 मूल मुद्रित पृष्ठ (1009-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।