उच्छास पु० उद् + श्वस--घञ् । १ अन्तर्मुखश्वासे, आख्यायिका याः २ परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राण- वायोर्दीर्घगत्या ३ बहिर्गतौ ४ आश्वासे च । “दीर्वा- ङ्गुलीपर्वोच्छ्वासप्रेक्षणबाहुम्” कात्या० “वायोर्मार्गनिरो- धाच्च न गर्भस्थः प्ररोदिति” निश्वासोच्छ्वाससंक्षोभस्वप्नान् गर्भोऽधिगच्छति” तुश्रु० । उच्छ्वासवहनाडीभेदास्तु तत्र दर्शिताः । “ऊर्द्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वास- [] जृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यः शरीरं धारयन्ति “पीडयन्नरुजोगाढः सोच्छ्वासः शिथि- लः स्मृतः” । “शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत् । काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्ज्जयेत्” सुश्रु० । “सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः” सुश्रु० । उच्छ्वासश्चदीर्घनिश्वासः स च यावत्कालेन श्वासरूपप्राण- क्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्य्यन्तप्राणवायोर्ब- हिर्गमने भवति । “उष्णोच्छ्वासं समधिकतरोच्छ्वा- सिना दूरयर्ती” मेघदू० “इत्युच्छ्वासोऽमृतं प्राण आदध” कात्या० ४, ८, २९ ।
📄 मूल मुद्रित पृष्ठ (1069-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।