उज्झ त्यागे तुदा० पर० सक० सेट् । उज्झति “औज्झीत् [] उञ्झाम्--बभूव आस चकार । उज्झिता जज्झ्यात् उ- ज्झिष्यति औज्झिष्यत् । उज्झितः । त्वमङ्ग यस्याः पति- रुज्झितक्रमः” नैष० । “अद्यापि नोज्झति हरः किल कालकूटम्” चौरपञ्चाशिका । “प्राणानौज्झीच्च खड्गेन छिन्नस्तेनैव मूर्द्धनि” भट्टिः । “सपदि- विगतनिद्रस्तल्पमुज्झाञ्चकार” । “अविरतोज्झितवारिविपा- ण्डुभिः” “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्ममु मृगद्व- न्द्वेषु” सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्” “उदये मदवाच्यमुज्झता” इति च रघुः । अतः “भिद्योद्ध्यौ नदे” पा० नि० क्यप् नदे कर्त्तरि झस्य धत्वग् । “उदक- मुज्झति उद्ध्योनद”ः सि० कौ० । प्र + प्रकर्षेण त्यागे । “स्वगृहिणी प्रेयस्यपि प्रोज्झिता” प्र० बो० । “लिखितमपि ललाटे प्रोज्झितुं कः समर्थः” हितो० । सम् + सम्यक्त्यागे ।
उज्झ त्रि० उज्झति उज्झ--अच् । त्यागिनि । “ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः । गर्हितान्नाद्ययोर्जग्धिः सुरापाणसमानि षट्” मनुः ।
📄 मूल मुद्रित पृष्ठ (1070-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।