उत्तानपाद पु० स्वायम्भुव मनोः पुत्रे ध्रुवपितरि १ नृपभेदे । “वैराजात् पुरुषात् वीरं शतरूपा व्यजायत । प्रियव्रतो- त्तानपादौ वीरात् काम्या व्यजायत” हरि० २ अ० । “स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः । प्रियव्रतोत्तान- पादौ शतरूपापतेः सुतौ । वासुदेवस्य कलना रक्षायां जगतः स्थितौ । जाये उत्तानपादस्य सुनीतिः मुरुचि- स्तथा । सुरुचिः प्रेयसी पत्युर्गेतरा यत्सुतोध्रुवः” भाग० ४ स्क० ८ अ० इतौत्तरं तच्चरितं तत्र वर्णितम् । उत्तान [] उच्चस्थितः पादोऽस्य । १ परमेश्वरे पु० “पादोऽस्य सर्व्वाभू- तानि त्रिपादस्यामृतं दिवीति” श्रुतेस्तस्य सार्व्वोपरिस्थ- पादत्वात् तथात्वम् । अस्य समासे वा अन्तलोपे उत्ता- नपादपि तत्रैव “भूर्जज्ञ उत्तानपदोभुव आशा अजायन्त” । “तदुत्तान पदस्परि” ऋ० १०, ७२, ३, ४, अत्र भत्वे पादः पदादेशः । ३ उत्तानपादयुक्ते शिशुप्रभृतौ त्रि० ।
📄 मूल मुद्रित पृष्ठ (1106-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।