उदावर्त्त पु० उद् + आ + वृत--घञ् । रोगभेदे तल्लक्ष्मादि सु- श्रुते दर्शितं यथा “अथात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः । अ- धश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः । न वेगान् धार- येत्प्राज्ञो वातादीनां जिजीविषुः । वातविण्मूत्रजृम्भाश्रुक्ष- वोद्गारवमीन्द्रियैः । व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते । क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात् । तस्याभि- धास्ये व्यासेन लक्षणञ्च चिकित्सितम् । त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः । अपथ्यभोजनाच्चापि वक्ष्यते च तथापरः । आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् । कासप्रतिश्यायगलग्रहांश्च बलासपित्त- प्रसरञ्च घोरम् । कुर्य्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषं मुखतः क्षिपेद्वा । आटोपशूलौ परिकर्त्तनञ्च सङ्गः पुरीषस्य तथोर्द्ध्ववातः १ । पुरीषमास्यादपि वा निरेति पुरीषवेगेऽ- भिहते २ नरस्य । मूत्रस्य वेगेऽभिहते ३ नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् । मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभि- प्रदेशेष्वथ वापि मूर्द्ध्नि । आनद्धवस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्त्तेः । मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् ४ पवनात्मकाः स्युः । श्रोत्राननघ्राणविलो- चनोत्था भवन्ति तीव्राश्च तथा विकाराः । आनन्दजं [] शोकसमुद्भवं वा नेत्रोदकं ५ प्राप्तममुञ्चतो हि । शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन । भवन्ति गाढं क्षवयोर्व्विघातात् ६ शिरोऽक्षिनासाश्रवणेषु रोगाः । कण्ठा- स्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः । उद्गारवेगेऽभिहते ७ भवन्ति जन्तोर्व्विकाराः पवनप्रसूताः । छर्देर्व्विघातेन ८ भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम् । मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च । शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ९ । तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात् १० कृ- शता च दृष्टेः । कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघा- तात् ११ हृदये व्यथा च । श्रान्तस्य निश्वासविनिग्रहेण १२ हद्रोगमोहावथ वापि गुल्मः । जृम्भाङ्गमर्दो ङ्गशिरो- ऽक्षिजाड्यं निद्राभिघातादथ १३ वापि तन्द्रा । तृष्णादितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् । शकृद्वमन्तं मतिमा- नुदावर्त्तिनमुत्सृजेत् । सर्वेष्वेतेषु “विधिवदुदावर्त्तेषु कृत्स्नशः । वायीः क्रियाविधातव्या स्वमार्गप्रतिपत्तये” । उद्न उदकस्यावर्त्तः । २ जलस्य स्वतोभ्रमणे । ३ स्त्रीचिह्न- रोगभेदे स्त्री सा च सुश्रुते दर्शिता यथा “विंशतिर्व्याप- दोयोनेर्न्निर्दिष्टा रोगसङ्ग्रहे । मिथ्याचारेण ता स्त्रीणां प्रदुष्टेनार्त्तवेन च । जायन्ते वीजदोषाच्च दैवाच्च शृणु ताः पृथक् । उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता । वातला चेति वातोत्था पित्तोत्था रुधिरक्षरा । वामिनी स्रंसिनी चापि पुत्त्रघ्नी पित्तला च या । अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् । श्लैष्मिका सकपा ज्ञेया षण्डी च फलिनी तथा । महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा” । “सफेनिलमुदावर्त्ता रजः कृच्छेणमुञ्चति” ।
📄 मूल मुद्रित पृष्ठ (1163-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।