उपाकरण न० उप + आ + कृ--ल्युट् । १ उपावर्त्तव्यमेत्येवं स्तोत्र [] प्रैषे “नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्य्यु- रुद्गातृभ्यः” शत० ब्रा० १, ५, २, १२, “यदा उद्गातारः स्तोत्रं प्रारभेरन् तावदध्वर्युग्रहणादनन्तरं नापव्याहरेत्” भा० “प्राग्वा च प्रवदितोः प्रातरनुवाकोपाकरणम्” कात्या० ९, १, १०, । “सोमे च ग्रहं ग्रहोत्वोपकरणात्” ३, ३, १७, उपावर्त्तध्वमित्ययंस्तोत्रप्रैषः उपाकरणशब्दे नौच्यते” कर्कः । तथा प्रेषणे हि स्तोत्रस्यारम्भणात्तस्य तथा- त्वम् । २ यज्ञियपशुसंस्कारविशेषे च “गोतमस्तोमः प्रथमं द्वितीयस्याह्न पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्या- स्तावेवास्थापयेयुः” आश्व० श्रौ० १०, ८, २ । “तमवस्थित- मुपाकरणाय यदक्रन्दैत्येकादशभिः स्तौत्य प्रणुवन्” ५ “पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्ज्जं वपामुत्- खिद्य जुहुयात्” आश्व० गृ० २, ४, १५, १ आरम्भे च । “अथातोऽध्यायोपाकरणम्” आश्व० गृ० ३, ३, २, “उपा- करणमारम्भः” ना० वृ० । उपाकर्म्मशब्दार्थे च तत्प्रकार- कालादिकं वक्ष्यते
📄 मूल मुद्रित पृष्ठ (1343-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।