उ(ऊ)र्ज जीवने वा चु० उभ० अक० पक्षे भ्वा० पर० सेट् । उ(ऊ)र्ज्जयति ते उ(ऊ)र्ज्जति । और्ज्जिजत्--त और्ज्जीत् । उ(ऊ)र्ज्जयाम् बभूव आस चकार चक्रे पक्षे उ(ऊ)र्जाम् बभूव आस चकार । क्त उ(ऊ)र्ज्जित, वृद्धे बलान्विते । णिणन्तत्वे वर्द्धिते त्रि० दीर्घादिरयमिति बहवः
ऊर्ज्ज बलाधाने जीवने वा अदन्तचु० पक्षे भ्वा० अक० तत्- करणे सक० सेट् । उर्ज्जवत् । नाभयो वाजिनमूर्जयन्ति” ऋ०९, ८९, ४, “यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्ज- यति” शत० ब्रा०७, ५, १, १८, “तां वो देवाःसुमतिमूर्ज्ज- यन्तीमिषमश्याम” ऋ०५, ४१, १८ ।
ऊर्ज्ज स्त्री ऊर्ज्ज--भावे क्विप् । १ बले । करणे क्विप् । २ अन्ने न० । ३ अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री “विश्वे- देवा यामूर्ज्जं मदन्ति” ऋ० ७, ४९, ४, “यास्त ऊर्ज्जस्तन्वः [] सम्बभूवुः” अथ०१२, १, १२, इह पृथिव्याः सम्बोधनेन तस्या विकारान्नसूक्ष्मांशत्वमूर्जामुक्तम् । “स ऊर्जमुपजीवतीति” वृ० उ० “ऊर्ज्जं सूक्षितिं सूम्नम्” ऋ० २, २०, “उर्गस्वाङ्गिरस्यूर्णम्रदा ऊर्ज्जं मयि धेहि” यजु० ४, ४०, “ऊर्क् अन्नरसरूपा” वेददी० ऊर्ज्जं बलं धेहि इत्यर्थः “अन्नमूलं बलं पुंसाम्” इत्युक्तेः अन्नरसस्य वलाधाय- कत्वम् । “तमःसमूहाकृतिमप्यशेषादूर्जा जयन्तं प्रथितप्रका- शान्” भट्टिः ऊर्ज्जा बलेन “बलमूर्ज्जञ्च यच्छति” मनुः अत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क् इति बोध्यम् । ४ जले स्त्री । “ऊर्जो नपातं स हि नाय- मस्मयुः” यजु० २७, ४४, ऊर्क्शब्देनाप उच्यन्ते अद्भ्यो- वृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पौत्रत्वम् । वेददी० । “जर्ज्जांपते पाहि” यजु०२७, ४३ ।
ऊर्ज्ज पु० ऊर्जति रसादिकं सोमोऽत्राधारे अच् । १ कार्त्तिके मासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवी- र्याधिक्यवर्द्धनेन तथात्वम् । “इषोर्जौ शरत्” इत्युपक्रम्य अयने विभज्य च “तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भग- वानाप्यायते सोमोऽम्ललवणमधुररसा बलवन्तो भवन्त्यु- त्तरोत्तरं च सर्वप्राणिनां बलमभिवर्द्धते” सुश्रुते शरदृतोर- न्तिमस्य कार्त्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथा त्वम् । करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम् । २ उ- त्साहे । भावे अच् घञ् वा । ३ बले ४ जीवने च । करणे अच् घञ् वा । ५ जले न० “ऊर्जं वहन्ती- रमृतं घृतं पयः कीलालम्” यजु० २, ३४ । जल- स्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्च तथात्वम् “ऊर्जसन! ऊर्ज्जं धाः” ऋ०६, ४, ४, “ऊ- र्जस्य सने! अन्नस्य दातः!” भा० “ऊर्जाद उत यज्ञि- यासः” ऋ०१०, ५३, ४ । ऊर्जादः अन्नादाः भा० “अत्र ऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथा त्वम् । “तदक्षितर्पणादेघ लभेतोर्जमसंशयम्” सुश्रु० कर्त्तरि अच् । ६ बलान्विते त्रि० “कृतजगत्त्रयभूर्ज- मतङ्गजम्” माघः ।
📄 मूल मुद्रित पृष्ठ (1368,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।