🕉️ 20 November 2026, Friday · 09:33:31 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ऋतपर्ण
ṛtaparṇa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ऋतपर्ण संज्ञा पुं॰ [सं॰] दे॰ ऋतुपर्ण ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ऋत—पर्ण m. = ऋतुपर्ण, q.v.
📄 मूल मुद्रित पृष्ठ (223,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ऋतपर्ण्ण सूर्य्यवंश्ये नृपभेदे । “भगीरथसुतो राजा” इत्युप- क्रम्य “अयुताजित्सुतस्यासीदृतपर्ण्णो महायशाः । दि- व्याक्षहृदयज्ञोऽयं राजा नलसखो बली । ऋतपर्ण्णसुत- श्चासीदार्त्त पर्ण्णिर्बहीपतिः” हरिवं० १६ अ० । तस्य च नलेन सख्यमक्षहृदयज्ञत्वञ्च भा० व० ७२ अ० दर्शितं यथा “एवमुक्तो नलेनाथ तदा भाङ्गासुरिर्नृपः । आससाद वने राजन्! फलवन्तं विभीतकम् । तं दृष्ट्वा वाहुकं राजा त्वरमाणोऽभ्यभाषत । ममामि सूत! पश्य त्वं सङ्ख्याने परमं बलम् । सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन । नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् । वृक्षेऽस्मिन् यानि पर्णानि फलान्यपि च वाहुक! । पतितान्यपि यान्यत्र तत्रैकमधिकं शतम् । एकमत्राधिकं पत्रं फल- मेकञ्च वाहुक । पञ्चकोट्योऽथ पत्राणां द्वयोरपि च शा- खयोः । प्रचिनुह्यस्य शास्वे द्वे याश्चायन्याः प्रशाखिवाः । आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च । ततो रथमव- स्थाप्य राजान वाहुकोऽब्रवीत् । परोक्षमिव मे राजन्! कत्थसे शत्रुकर्षण! । प्रत्यक्षमेतत् कर्त्तास्मि शातयित्वा विभीतकम् । अथत्र गणिते राजन्! विद्यते न परोक्षता । प्रत्यक्षं ते महाराज! शातयिष्ये विभीतकम् । अहं हि नाभिजानामि भवेदेवं न वेति वा । सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप! । मुहूर्त्तमपि वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम् । तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् । वाहुकस्त्वब्रवीदेनं परं यत्नं समा- स्थितः । प्रतीक्षस्व मुहूर्त्तं त्वमथ वा त्वरते भवान् । एष याति शिवः पन्था याहि वाष्णर्ये! सारथिः । अब्र- वीदृतुपर्णस्तु सान्त्वयन् कुरुनन्दन! । त्वमेव यन्ता नान्यो- ऽस्ति पृथिव्यामपि वाहुक! । त्वत्कृते यातुमिच्छामि ब्दिर्भा हयकोविद! । शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्त्तुमर्हसि । कामञ्च ते करिष्यामि यन्मां वक्ष्यसि वाहुक! । विदर्भां यदि यात्वाद्य सूर्य्यं दर्शयितासि मे । अथाब्रवीद्वाहुकस्तं संख्याय च विभीतकम् । ततो वि- दर्भां यास्यामि कुरुष्वैवं वचो मम । अकाम इव तं राजा गणयस्वेत्युवाच ह । सोऽवतीर्य्य रथात्तूर्ण्णं शात- [] यामास तं द्रुमम् । ततः स विस्मयाविष्टो राजानमिद- मब्रवीत् । गणयित्वा ययोक्तानि तावन्त्येव फलानि च । अत्यद्भुतमिदं राजन्! दृष्टवानस्मि ते बलम् । श्रोतुमि- च्छामि ते विद्यां ययैतज् ज्ञायते नृप! । तमुवाच ततो राजा त्वरितो गमने नृपः । विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् । वाहुकस्तमुवाचाथ देहि विद्यामिमां मम । मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ । ऋतुप- र्ण्णस्ततो राजा वाहुकं कार्य्यगौरवात् । हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः । यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् । निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु वाहु- क!” । नलस्य वाहुकच्छद्मरूपतामुपवर्ण्य अन्त, उक्तं यथा “ऋतुपर्ण्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम् । दमयन्त्या समायुक्तं जहृषे च नराधिपः । तमानाय्य नलं राजा क्षमयामास पार्थिवम् । स च त क्षमयामास हेतुभिर्बु- द्धिसम्मतः! । स सत्कृतो महीपालो नैषधं विस्मिता- ननः । उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः । दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत । कच्चित्तु नाप- राधं ते कृतवानस्मिनैषध! । अज्ञातवासं वसतो मद्- गृहे वसुधाधिप! । यदि वा बुद्धिपूर्वाणि यद्यबुद्ध्यापि कानिचित् । मया कृतान्यकार्य्याकि तानि त्वं क्षन्तुमम- र्हसि । नल उवाच । न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव! । कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव । पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप! । अत ऊर्द्धन्तु भूयस्त्वं प्रीतिमाहर्त्तुमर्हसि । सर्वकामैः सुवि- हितैः सुखमस्म्युषितस्त्वयि । न तथा स्वगृहे राजन्! यथा तव गृह
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें