ऋष गतौ बधे च तुदा० पर० सक० सेट् । ऋषति आर्षीत् । आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षि- ष्यत् । अर्षितव्यः अर्षणीयः ऋष्यः । अर्षिता ईदित् ऋष्टः ऋष्टवान् ऋष्टिः । “शृङ्गाभ्यां रक्ष ऋषत्यवतिम्” अथ० ९, ४, १७ । अथ दाक्षणायुग्यमुपार्षति” शत० ब्रा० ५, [] ४, ३, ८ । “ह्रदं न हित्वान्यृषन्त्यूर्म्मयः” ऋ० १, ५२, ७, “यदुदर्य्यस्य मेदस्य परिशिष्यते तद्गुदे न्यृषेत्” शत० ब्रा० २, ८, ४, ५ । “अथ पर्ष्यृषति” इत्युपक्रम्य “समं भूमि पर्यर्षणं करोति” ३, ६, १, १८ । अस्य वेदे भ्वादित्वमपि दृश्यते । गणव्यत्यासात् साधुः । “अर्षन्त्वापस्त्वयेह प्रसूताः” ऋ० ३, ३०९ । “ऋषी गतौ व्यत्ययेन शप्” भा० “तस्मा- आपोघृतमर्षन्ति सिन्धवः” १, १२५, ५ । “मही न धारा- त्यन्धो अर्षति” ९, ८६, ४४ । “एता अर्षन्त्यनला भवन्ती” ४, १८, ६ । “एता स्वर्षन्ति हृद्यात् समुद्रात्” ४, ५८, ५ । “शशमास्कन्दमर्षति” यजु० २३, ५५ । अभि + आभिमुख्येन गतौ “अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मा- सु” ऋ० ४, ५८, १० । “कृण्वन्ति वरिवो गवे अभ्यर्षन्ति सुष्टुतिम्” ९, ६२, ३ । नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे । “गुहाकरिन्द्रं याता वीर्य्येण न्यृष्टम्” ऋ० ४, १८, ० । “न्यृष्टं नितरां प्राप्तम्” भा० । “अयं निधिः सरमे अद्रिबुध्नोगोभि- रश्वेभिर्वसुभिर्न्यृष्यः” १०, १०८, ७ ।
📄 मूल मुद्रित पृष्ठ (1449-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।