🕉️ 20 November 2026, Friday · 09:12:55 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

एकचक्र
ekacakra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
एकचक्र १ संज्ञा पुं॰ [सं॰]
१. सूर्य का रथ (जिसमें एक ही पहिया माना गया है) ।
२. सूर्य ।
एकचक्र २ वि॰
१. एक चक्कावाला । एक पहियावाला (को॰) ।
२. एक राजा द्वारा शासित (को॰) ।
३. चक्रवर्ती । उ॰— चल्यो सुभट हरिकेश सुवन स्यामक को भारी । एकचक्र नृप जोग दोय भुज सरधनुधारी ।—गोपाल (शब्द॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
एक—चक्र mf(आ)n. having one wheel (said of the sun's chariot), RV. i, 164, 2; AV. ix, 9, 2; x, 8, 7
possessing only one army, governed by one king (as the earth), BhP.
एक—चक्र m. N. of a Dānava, MBh.; VP. &c.
📄 मूल मुद्रित पृष्ठ (227,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकचक्रं, क्ली, (एकं चक्रं यस्य ।) पुरीविशेषः । तत्प- र्य्यायः । हरिगृहम् २ शुम्भपुरी ३ । इति त्रिकाण्ड- शेषः ॥ सूर्य्यरथः । त्रि, असहायचारी । यथा, ऋग्वेदे १ । १६४ । २ । “सप्त युञ्जन्ति रथमेकचक्र- मेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्व्वं यत्रेमा विश्वा भुवनाधितस्थुः” ॥ अत्र भाष्यकृता यद्व्याख्यातन्तदाह । “एकचक्रमेकरथाङ्गोपेतम् । यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावं भुर्य्यस्य सम्बन्धिनं सप्तै- तत्संङ्ख्यका अश्वा युञ्जन्ति अनुबध्नन्ति वहन्त्य- होरात्रनिर्वाहाय । किं वस्तुतः सप्त नेत्याह । एकोऽश्वः सप्तनामा । एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः । वाष्वधीनत्वादन्तरीक्षसञ्चारस्य एकचक्रमित्युक्तम् । कीदृशन्तदित्यत आह । त्रिनाभि बलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्र- त्रयोपेतम् । अंजरममरणधर्म्माकम् । अनर्व्वम- शिथिलं पुनस्तदेव विशेष्यते । यत्र यस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्व्वाणि भूतजातान्यधि आश्रित्य तस्थुस्तिष्ठन्ति । यद्वा एकचक्रमेकचारिणमसाहाय्येन सञ्चरन्तं रथ- मादित्यं सप्त युञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्य्या असाधारणाः पर- [] स्परविलक्षणाः षडृतवः एकः साधारण इत्येवं- रूपा यद्वा मासद्वयात्मकाः षट् अपरोऽधि- मासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति एतस्य कार्य्यं निर्व्वहन्तीत्यर्थः । स चैकोऽसहायोऽश्वो ल्यापनशील आदित्यः सप्तनामा सप्तरसानां सन्नमयितारो रश्मयो यस्य तादृशः । सप्तर्षि- भिः स्तूयमानो वादित्यो वहति धारयति भ्रम- तीत्यर्थः । किं भूतम् । त्रिनाभि चक्रम् । त्रयो नाभिस्थानीयाः सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशम् । के ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्त्तमानाख्यास्त्रयः कालास्त्रिना- भयः । तद्विशिष्टं चक्रं चक्रवत् पुनः पुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणम् । न हि कदाचिदपि कालो म्रियते अनादिनिधनः कालः इति स्मृतेः । अनर्व्वमप्रतिहतम् । ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्त्तयति संवत्सरादर्वाचीनानां तत्रै- वान्तर्भावात् युगादीनां तदावृत्तिसाध्यात् संवत्- सरस्य चक्रत्वेन रूपणम् । पुनः कीदृशं तत् । यत्र यस्मिंश्चक्रे इमा विश्वा भुवना इमानि सर्व्वाणि भूतान्यधितस्थुः आश्रित्य तिष्ठन्ति कालाधी- नत्वात् सर्व्वस्याः स्थितेः । ईदृशस्य कालस्य का- रणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञान- मोक्षाक्षरप्रशंसा च” ॥ नृपाद्वयविशिष्टम् । एक- राजविशिष्टम् । यथा, भागवते । ३ । १ । २० । “इत्थं व्रजन् भारतमेव वर्षं कालेन यावत् गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थः” ॥ पुं, असुरभेदः । यथा, हरिवंशे ३ । ८४ । “एकचक्रो महाबाहुस्तारकश्च महाबलः” । अयं हि प्रतिविन्ध्य इति नाम्ना प्रसिद्धः । यथा । महाभारते १ । सम्भवपर्ब्बण्यंशावतरणे ६७ । २२ । “एकचक्र इवि ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” ॥ स्त्री, स्वनामख्याता पुरी । अत्रस्थो भीमसेनो महाबलं वकनामानमसुरं हतवान् ॥ यथा, -- महाभारते । १ । अंशावतारपर्ब्बणि भारतसूत्रे । ६१ । २६-२८ । “ते तत्र नियता कालम् कञ्चिदूषुर्नरर्षभाः । मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ तत्राससाद क्षुधितं पुरुषादं वृकोदरः । भीमसेनो महाबाहुर्व्वकं नाम महाबलम् ॥ तञ्चापि पुरुषव्याघ्रो बाहुवीर्य्येण पाण्डवः । निहत्य तरसा वीरो नागरान् पर्य्यसान्त्वयत्” ॥)
📄 मूल मुद्रित पृष्ठ (1-291-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें