एकज त्रि० एकस्मात् जायते जन--ड ५ त० । १ एकस्माज्जाते “साकञ्जानां सप्तधमाहुरेकजम्” ऋ० १, १६४, १५ । साकंजानामेकस्मादादित्यात् सहोत्पन्नानामृनां मध्ये सप्तधं सप्तममृतुम् एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः, चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृ- तवो भवन्ति अधिमासेनैक उत्पपद्यते सप्तमर्त्तुः” भा० । एकेन जातमित्युक्तिश्चिन्त्या कर्त्तृकरणयोरेव तृतीयासभासो न हेतुतृतीययेति नियमात् । २ सोदरासोदरभ्रातरि तयोरे- कशरीरोत्पन्नत्वात् एकजत्वम् ३ भागित्यां स्त्री जन--क्त । ५ त० । एकजातादयोऽप्यत्र सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत् । सर्वास्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत्” स्मृतिः “बह्वीषु चैकजातानां नानास्त्रीषु निबोधत” मनुः । एकः असहाय एव जायते जन--ड सुप्सुपेति स० । ४ असहायतया जाते “एकजम्” कात्या० ६, १, १ । “एकः असहय एव भूमेर्जातः तमेकं यूपं वृश्चति” कर्कः । “उग्रं ते पाजो न त्वा रुरुध्रे वशी वशं नयस एकज! त्वम्” ऋ० १०, ८४, ३ ।
📄 मूल मुद्रित पृष्ठ (1463,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।