🕉️ 20 November 2026, Friday · 05:39:34 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

एकपिंग
ekapiṃga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
एकपिंग संज्ञा पुं॰ [सं॰ एकपिंङ्ग] कुबेर ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
एक—पिङ्ग or एक—पिङ्गल, m. ‘having a yellow mark (in the place of one eye)’, N. of Kuvera, R.; Daś. &c.
📄 मूल मुद्रित पृष्ठ (228,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकपिङ्ग पु० एकं पिङ्गं नेत्रमस्य । कुवेरे । तस्य क्रूरदृ- ष्ट्या पार्व्वतीदर्शने वामनेत्रस्य स्फुटने शिववाक्येन प्रस- न्नायास्तस्या वरेण पिङ्गलं वामनेत्रं जातमिति तस्य तथात्वम् तत्कथा काशी० यथा “प्रसार्य्य नयने पूर्व्वमुमामेव व्यलोकयत् । शम्भोः समीपे का योषिदेषा सर्वाङ्गसुन्दरी । अनया किं तपस्तप्तं? ममापि तपषोऽधिकम् । अहो रूपमहो प्रेम सौभाग्य श्रीरहो भृशम् । क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन् । तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् । अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्वीक्ष्य मां वक्ति न्यक्कुर्व्वन्मे तपःप्रभाम् । असकृद्दक्षिणेनाक्ष्णा पुन- र्मामेष पश्यति । असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः । इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः । उमे! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा । संपश्यते तपो- लक्ष्म्यां तव किन्त्वधिवर्णयन् । इति देवीं समाभाष्य- तमीशः पुनरब्रवीत् । वरं ददामि ते वत्स! तपसाऽनेन तोषितः । निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः । यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत! । पतिः- पुण्यजनानाञ्च सर्वेषां धनदोभव । मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके । अलकां निकषा मित्र! तव प्रीतिं विवर्द्धयन् । आगच्छ पादयोरस्याः पत ते जननी त्वियम् । इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् । प्रसादं कुरु देवेशि! तपस्विन्यङ्गजे तव । देव्युवाच । वत्स! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा । भवैकपिङ्गोनेत्रेण वामेन स्फुटितेन च । देवदत्तास्तु ये तुभ्यं वरास्सन्तु तथैव ते । कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत!” एकपि- [] ङ्गलोऽप्यत्र । एकपिङ्गलवर्णनेत्रयुक्तत्वात्तस्य तथात्वम् ।
📄 मूल मुद्रित पृष्ठ (1476-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
एकपिङ्गः, पुं, (एकं पिङ्गं पिङ्गलवर्णं नेत्रं यस्य ।) कुवेरः । इत्यमरः ॥ (कुवेरस्य पिङ्गनेत्रकथा उक्ता काशीखण्डे । यथा, -- “प्रसार्य्य नयने पूर्व्वमुमामेव व्यलोकयत् । शम्भोः समीपे का योषिदेषा सर्व्वाङ्गसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् । अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् । क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन् । तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् ॥ अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्दक्षिणेनाक्ष्णा पुनर्मामेष पश्यति ॥ असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः । इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे ! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा । संपश्यते तपोलक्ष्मीं तव किन्त्वधिवर्णयन् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् । वरं ददामि ते वत्स ! तपसानेन तोषितः ॥ निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः । यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत ! ॥ पतिः पुण्यजनानाञ्च सर्व्वेषां धनदो भव । मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके ॥ अलकां निकषामित्र ! तव प्रीतिं विवर्द्धयन् । आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् । प्रसादं कुरु देवेशि ! तपस्विन्यङ्गजे तव । देव्युवाच । वत्स ! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा । भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन च ॥ देवदत्तास्तु ये तुभ्यं वराः सन्तु तथैव ते । कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत” ॥)
📄 मूल मुद्रित पृष्ठ (1-293-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें