एषण पु० एषते शत्रुहृदयम् ल्यु । १ लौहमयवाणे हलायुधः । इष इच्छायां णिच् भावे--युच् । एषणा २ प्रेरणायां ३ पुत्रलोकवित्तकामनायाञ्च स्त्री “न कश्चिदन्यः पंसार उक्तादस्त्येषणात्रयात्” वेदा० । “तमात्मानं विदित्वा व्राह्मणाः पुत्रेषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लौकैषणोभे ह्येते एषणे [] भवतः” शत० ब्रा० १४, ६, ४, १, “पुत्रैषणा पुत्रोत्पत्ति- मुद्दिश्य दारसंग्रहेच्छालक्षणा । वित्तं द्विविधं मानुषं गवादि, दैवं विद्यादि, तस्य कर्म्मणा साधनस्य गवादेरु- पादानरूपा इच्छा वित्तैषणाऽनेन कर्म्म कृत्वा पितृलोकं ज्येष्यामीति विद्यासंयुक्तेन वा देवलोकम् । केवलया वा हिरण्यगर्भविद्यया देवेन वित्तेन देवलोकं जेष्यामीतीच्छा लोकैषणा । एवमेकत्वेऽपि लोकैषणायाः साधनमन्त- रेणासिद्धेः साध्यसाधनाभेदेन द्वैविध्यमाह उभे हीति” भा० । “अपहतसकलैषणामलात्मन्यविरतमेधितभाव नोपहूतः” भाग० ४, ३१, १८, एष्यते ज्ञायते मानमनया करणे ल्युट् ङीप् एषणी । ४ तुलासाधने (निक्ति) मानयन्त्रभेदे मेदिनिः । स्वार्थे कन् । एषणिकाऽप्यत्र । अमरः । एषते व्रणपारमनया करणे ल्युष्ट् ङीप् । (वेल- कार) ५ व्रणस्फोटनास्त्रभेदे मेदि० । भावे ल्युट् । सु- श्रुतोक्ते ६ व्रणविदारणव्यापारभेदे । तत्र हि “यन्त्रकर्म्मा- णि तु निर्य्यातनपूरणेत्याद्युपक्रमे “चूषणैषणदारणेत्यादि पठित्वा चतुर्विंशतिरित्युक्तम् । तत्र एषणमभ्यन्तरे शस्त्र- प्रवेशनेन पूयादेरपसारणम् । तत्साधनशस्त्रमेषणी यथा ह सुश्रुतः “विं शतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रे- त्याद्युपक्रमे “वडिशदन्तशङ्क्वेषणी” इत्युक्त्वा “एषण्येषणे आनुलोम्ये च” इति तत्प्रयोजनमुक्तम् । एषणमभ्यन्तर- गमनमानुलोम्यं विस्राबणम् तत्रैव एषणीलक्षणं “एषणी गण्डूपदाकारमुखी” उक्तम् । “एष्येष्वेषण्यलाभे तु बाला- ङ्गुल्यङ्कुरा हिताः” मुश्रुतः ।
📄 मूल मुद्रित पृष्ठ (1542-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।