ऐ ऐकारः । स तु द्वादशस्वरवर्णः । अस्योच्चारण- स्थानं तालु कण्ठश्च । (“एदैतोः कण्ठतालु” इ- [] त्युक्तः । तथाच शिक्षायाम् । “ए ऐ तु कण्ठ- तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स च ह्रस्वो न भवति । (द्विमात्रत्वात् दीर्घस्त्रिमात्र- त्वात् प्लुतश्च भवति । उदात्तानुदात्तस्वरितभेदै- स्त्रिविधोऽपि पुनः प्रत्येकमनुनासिकाननुनासिक- भेदाभ्यां षड्विध एव ॥) “ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् । कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा ॥ ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये । सदाशिवमयं वर्णं विन्दुत्रयसमन्वितम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य लेखनप्रकारो यथा, -- “एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्ध्वतः । चन्द्रेन्द्रभानवस्तासु मात्रा शक्तिः क्रमात् स्मृताः ॥ त्रिधा शक्तिमयी पूर्व्वा दुर्गा वाणी सरस्वती” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, -- “ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरप्रज्ञोऽधरो विकृतमुख्यपि ॥ क्षमात्मको जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्द्दिश्रीः पीठेशोऽग्निः समातृकः ॥ त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती ॥ कामकोटो वामजानुरंशुमान् विजयो जटा” । इति तन्त्रशास्त्रम् ॥ दन्तान्तः । योनिः । इति वीजवर्णाभिधानम् ॥ (अनुबन्धविशेषः । यथाह कविकल्पद्रुमः । (“ऐर्यजादिः स्यादोर्निष्ठातन औरनिट्” । एतेन यजादिगणीयत्वात् “ऐ वसौ निवासे इत्यस्य लिटिप्रभृतिषु सम्प्रसारणे कृते उवास इत्यादयो भवेयुः” ॥ मातृकान्यासे अधरे न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यास- मन्त्रो यथा । “एं नम ओष्ठे ऐं नमोऽधरे” ॥ इति ॥)
ऐ, व्य, (एतीति । आ + इण् + विच् ।) आह्वानम् । स्मरणम् । आमन्त्रणम् । इति मेदिनी ॥
📄 मूल मुद्रित पृष्ठ (1-300-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।