🕉️ 19 November 2026, Thursday · 08:11:31 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

ओज
oja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📜 शब्द-रूप📗 अमरकोश
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
ओज १ वि॰ [सं॰ ओजस्] विषम । अयुग्म [को॰] ।
ओज ३ संज्ञा पुं॰ [सं॰] [वि॰ ओजस्वी, ओजित]
१. बल । प्रताप । उ॰—तेज ओज और बल जो बदान्यता कदम्ब सा ।—लहर, पृ॰ ५६ ।
२. उजाल । प्रकाश । उ॰—कामना की किरन का जिसमें मिला हो ओज । कौन हो तुम, इसी भूले हृदय की चिर खोज । —कामायनी ।
३. कविता का वह गुण जिससे सुननेवाले के चित्त में आवेश उत्पन्न हो । विशेष—वीर और रौद्र रस की कविता में यह गुण अवश्य होना चाहिए । टवर्गी अक्षरों की अधिकता, संयुक्ताक्षरों की बहुतायत और समासयुक्त शब्दों से यह गुण अधिक आता है । परुषावृत्ति में यह गुण होता है ।
४. शरीर के भीतर के रसों का सार भाग ।
५. ज्योतिष में विषम राशियाँ (को॰) ।
६. शस्त्रकौशल ।
७. गति । वेग (को॰) ।
८. पानी (को॰) ।
९. प्रत्यक्ष होना । आविर्भाव होना (को॰) ।
१०. धातु का प्रकाश (को॰) ।
११. जननशक्ति या जीवन शक्ति (को॰) ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ओज mfn. odd (as the first, third, fifth, &c. in a series), RPrāt.; Sūryas.; VarBṛS.
ओज m. N. of a son of Kṛṣṇa, BhP.
= ओजस्, L.
📄 मूल मुद्रित पृष्ठ (235,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
ओज a. Odd, uneven. --जं = ओजस् q. v.
📄 मूल मुद्रित पृष्ठ (0360-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
ओज बले अद० चुरा० उभ० अक० सेट् । ओजय--ति--ते औजिजत् त ओजयाम् बभूव आस चकार चक्रे । ओजितः
ओज पु० ओज--अच् । “ओजोऽथ युग्मं विषमः समश्च” । ज्या० त० उक्ते मेषादीनां द्वादशानां मध्ये १ अयुग्मे विषमे राशौ यथा १, ३, ५, ७, ९, ११, अङ्कैर्बोधिता मेष- मिथुनसिंहतुलाधनुःकुम्भाः ओजराशयः “ओजे रवीन्द्वोः समैन्दुरव्योः” नील० ता० । ओजस् शब्दोऽप्यत्र न० । “कुजार्किगुरुसौम्यानां भागाः शुक्रस्य च क्रमात् । पञ्च- पञ्चाष्टसप्तेषु ज्ञेयमोजस्मु राशिषु” ज्यो० त० अत्र ओजेषु राशिषु इत्येव क्वचित्पाठः । २ अयुग्ममात्रे (विजोड) च “भत्रयगोजगतं गुरुणा चेत्” “ओजे तपरौ जरौ गुरुश्चेत्” इत्यादौ अयुग्मपादे प्रयोगात्
📄 मूल मुद्रित पृष्ठ (1555,b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
ओज त्क, बले । तेजसि । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-अकं-सेट् ।) मा भवान् ओजि- जत् । इति दुर्गादासः ॥
ओजः, [स्] क्ली, (उब्जत्यनेन । उब्ज आर्जवे उब्जेर्बले “बलोपञ्च” ४ । १९१ । उणादिः असुन् । बलोपश्च । गुणः ।) दीप्तिः । अवष्टम्भः । प्रकाशः । बलम् । इति मेदिनी ॥ (यथा रघौ २ । ५४ । “रुद्रौजसा तु प्रहृतं त्वयास्याम्” । यथा च मा- नवे १ । १९ । “तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम्” ॥) प्रथमतृतीयपञ्चमसप्तमनवमैकादशराशयः । इति ज्योविषम् ॥ गौडी रीतिः काव्यगुणः । तस्य लक्षणम् । बहुसमाससंयुक्तवर्णपदाडम्बरः । यथा, “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपञ्चालीरीतयः परिकीर्त्तिताः ॥ ओजः समासभूयस्त्वं मांसलं पदडम्बरम्” । तस्योदाहरणम् यथा, -- “गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि- स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्सम्भ्रमा । आनन्दामृतवापिकां विदधती चित्तं गिरीशप्रभो- स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्ब्बती” ॥ इति काव्यचन्द्रिका ॥ * ॥ रसादिसप्तधातुसार- भागजधातुविशेषः । तस्य गुणाः । सर्व्वशरीरस्थि- तत्वम् । स्निग्धत्वम् । शीतलत्वम् । स्थिरत्वम् । शुक्लवर्णत्वम् । कफात्मकत्वम् । शरीरस्य बलपुष्टि- कारित्वञ्च ॥ “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् । ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ॥ भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु । [] तद्वदोजः शरीरेभ्यो धातुः संभ्रियते नृणाम्” ॥ इति वैद्यकम् ॥ ओजोऽदन्तोऽपि । इति भरतः ॥ “हृदयं चेतनास्थानमोजसश्चाश्रयं मतम्” । इति पूर्व्वखण्डे । ५ अ । शार्ड्गधरेणोक्तम् ॥ “तत्परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः” ॥ “ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः । येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥ यदृते सर्व्वभूतानां जीवितं नावतिष्ठते । यत्सारमादौ गर्भस्य योऽसौ गर्भरसाद्रसः ॥ संवर्त्तमानं हृदयं समाविशति यत्पुरा । यस्य नाशान्न नाशोऽस्ति धारि यद्धदयाश्रितम् ॥ यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः । तत्फला विविधा वाताः फलन्तीति महाफलाः ॥ ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः ॥ तन्महत्ता महामूलास्तच्चौजः परिरक्षता । परिहार्य्या विशेषेण मनसा दुःखहेतवः ॥ हृद्यं यत्स्याद्यदौजस्यं स्रोतसां यत्प्रसादजम् । तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च” ॥ इति सूत्रस्थाने त्रिंशेऽध्याये चरकेणोक्तम् ॥ “गुरु शीतं मृदु श्लक्ष्णं बहुलं मधुरं स्थिरम् । प्रसन्नं पिच्छिलं स्निग्धं ओजो दशगुणं तथा” ॥ मद्यसेवनतोऽस्य ये गुणा नश्यन्ति तद्यथा ॥ “गुरुत्वं लाघवाच्छैत्यं चौष्ण्यमम्लस्वभावतः । माधुर्य्यं मार्द्दवं तैक्ष्ण्यात् प्रसादञ्चाशुभावनात् ॥ रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि । विकासिभावात् पैच्छिल्यं वैशद्यं सान्द्रतान्तथा ॥ सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्” । “रसधात्वादिमार्गाणां सत्त्ववद्ध्वीन्द्रियात्मनाम् । प्रधानस्यौजसश्चैव हृदयस्थानमुच्यते” ॥ “नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः । विकाश-रूक्ष-विशदा गुणास्तत्र हि नोल्वणाः” ॥ इति च चरके चिकित्सास्थाने । १२ अः ॥ “ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम् । विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् ॥ देहस्यावयवस्तेन व्याप्तो भवति देहिनाम् । तदभावाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् ॥ अभिघातात् क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रयात् क्षुधः । ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् । तेजः समीरितं तस्माद्विभ्रंशयति देहिनः” ॥ इति सूत्रस्थाने । १५ अः । सुश्रुतेनोक्तम् ॥)
📄 मूल मुद्रित पृष्ठ (1-302-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "ओज" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें