ककुत्, [द्] स्त्री, (कं सुखं कावयति गृहस्थस्य औ- न्नत्यं प्रापयतीति यावत् । वृषाणां हि ककुत् गृहस्थस्य सुखलक्षणमिति भावः । ककुद्धीनवृष- पालने दरिद्रता इति सरणात् । क + कु + [] णिच्र् + पृषोदरादित्वात् ह्रस्वः तुगागमश्च ।) वृ षाङ्गविशेषः । षाँडेर झुँट् इति भाषा । (यथा, अथर्व्ववेदे । ६ । ८६ । ३ । “सम्राडस्य सुरामों ककुन् मनुष्याणाम् । देवानामर्द्धभागसि त्वणको वृषो भव” ॥ स्कन्धभागः ॥ यथा, भागवते ५ । २५ । ७ । “ध्यायमानः सुरा- सुरोरगसिद्धगन्धर्व्वविद्याधरमुनिगणैरनवरतमद- मुदितविकृतविह्वललोचनः सुललितमुखरिकामृ- तेनाप्यायमानः स्वपार्षदविवुधयूथपपतीनपरिम्ला- नरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकर- व्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नील- वासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामु- दारलीलो बिभर्त्ति” ॥) ध्वजः । वरः । इति मेदिनी ॥ (यथा, ऋग्वेदे । ८ । ४४ । १६ । “अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम्” ॥)
📄 मूल मुद्रित पृष्ठ (2-002-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।