कपिञ्जल पुं स्त्री “कपिरिब जवते ईषत् पिङ्गलो वा कमनीयं शब्दं पिञ्जयतीति वा” निरुक्तोक्ता व्युत्पत्तिः पृषो० । १ पक्षिभेदे चातके राजवल्ल० जलयाचनाय तस्य रम्यशब्द- करणात् तथात्वम् । २ तित्तिरौ त्रिका० । तित्तिरि- रिह श्वेत एव ग्राह्यः । “वर्त्तिकालावबर्तीर कपिञ्जल- कत्रित्तिराः । कलिङ्गाः कुक्कुष्टाद्याश्च विस्किराः समुदा- हङ्गाः । विकीर्य्य भक्ष्ययन्त्येते यस्मात्तस्माद्धि विस्किराः । कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः” भावप्र० उक्तेः अर्तएव “वसस्ताय कपिञ्जलानालभेत ग्रीष्माय कलविङ्गान् पर्वाभ्यस्त्रित्तिरीन्” यजु० ४, २० । कपिञ्जलतित्तिरीणां नेदेन निदेशः “कपिञ्जलः कपोत ललूकः शशस्ते निरृ- खै” यजु० २४, ३८ तस्य चारण्यत्वात् तत्तदेवतोद्दे- [] शेन उत्सर्ग एवात्रालभनम् । “कपिञ्जलादीनुत्सृजति पर्य्यग्निकृतान्” कात्या० ४०, ६, ९ उक्तेः । कपिञ्जलमास- गुणाश्च भावप्र० उक्ताः कपिञ्जलादीन् विषिकरानुक्त्वा “विषिकराः मधुरा शीताः कषायाः कष्टुपाकिनः । बल्यावृष्यास्त्रिदोषघ्ना पथ्यास्ते लघवः स्मृताः” । कपिञ्जलशब्दस्यावर्ण्णान्तत्वेन द्व्यच्त्र्यज्भिन्नत्वेन च अ- र्स्मशब्देन समासे न आद्युदात्तत्वम् । “अर्म्मे चावर्ण्णं द्व्यच्त्र्यच्” पा० सूत्रात्
📄 मूल मुद्रित पृष्ठ (1659-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।