कपिवक्त्रः, (कपेर्वानरस्य वक्त्रमिव वक्त्रं यस्य भागि- नेयपर्ब्बतमुनिशापप्रभावात् मातुलस्य देवषेस्तथा- त्वम् ।) नारदः । इति त्रिकाण्डशेषः ॥ (यथा हि नारदस्य कपिवक्त्रत्वं जातम् तदुच्यते । पुरा किल मातुलभागिनेयौ द्वावृषिसत्तमौ नारदपर्ब्बतौ मानुषेषु सम्प्रीत्या विहर्त्तुकामौ देवलोकादिहागतवन्तौ । आगत्य च सृञ्जयं राजानमभ्येत्य तद्राज्ये ऊषतुः । आसीच्च [] किलानयोः समयः शुभमशुभं वा हृदि जातं सङ्कल्पं परस्परेण कथनीयमिति । अथ कदाचित् राजा तावभ्युपेत्य स्वसुतां तदाराधनाय नियो- जितवान् । अथ गच्छति काले नारदस्तु कन्दर्प- बाणवशगः राजदुहितरि मनो निदधे । धर्म्म- विदपि नारदः व्रीडमानः तीव्रमिदं मनोभावं भागिनेयाय न शशंस । भागिनेयः पर्ब्बतस्तु इङ्गि- तादिभिर्मातुलं कामार्त्तं वीक्ष्य समयभङ्गादति- क्रुद्धः “इयं नृपसुता तव भार्य्या भविष्यति त्वमपि वानरमूर्त्तिधरोऽत्र विचरिष्यति” इति तं शप्त- वान् । एतच्छापात् खलु नारदो वानरमुख आसीत् इति पौराणिकी कथा अत्र अनुसन्धेया ॥ विस्तृतिस्तु महाभारते शान्तिपर्ब्बणि ३० अध्याये द्रष्टव्या ॥)
📄 मूल मुद्रित पृष्ठ (2-025-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।