कर्षू पु० कृष--ऊ । १ करीषानले (घुटेर आगुन) । २ कुल्यायां स्त्री अमरः । ३ इष्टखाते मेदि० । इष्टखातस्तु “चतु- रंङ्गुलपृथ्वीस्तावदन्तरास्तथाधःखाता वितस्त्यायतास्तिस्रः कर्षूः कुर्य्यात्” प्रा० वि० विष्णूक्तप्रमाणकगर्त्तभेदः । “ततः कर्षूःकुर्य्यात् तन्मूले प्रागुदगग्न्युप समाधानं कृत्वा पिण्डनिर्वपणम्” “कर्षूत्रयमूले पुरुषाणां, कर्षूत्रय- [] मूले स्त्रीणाम् । पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् स्त्रीकर्षूत्रय सान्नेन पयसा दध्ना मांसेन, पयसा च प्रत्येकं कर्षूत्रयं पूरयित्वा जपेत्” विष्णु० । ४ गर्त्त- मात्रे च । “कर्षूवीरणवति” कात्या० २१, ३ २६ । “कर्षूः कुहर उच्यते” कर्कः अस्य ह्रस्वान्तमपि । “दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदक्स्थाःः” कात्या० २१, ३, २६ । “श्मशानत उत्तरतः कुटिले कर्षू गर्त्तौ खात्वा” कर्कः ।
📄 मूल मुद्रित पृष्ठ (1776-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।