🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कल्पलता संज्ञा स्त्री॰ [सं॰] कल्पवृक्ष । यौ॰— कल्पलता दान = जिसमें सोने की दस लताएँ तथा सिद्धि, मुनि, पक्षी आदि बनाकर दान किए जाते हैं ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कल्पलता स्त्री कृप--णिच्--कर्म्मणि अच् कर्म० । महादा- नान्तर्गते स्वर्णंकल्पितलताकारे दानीयद्रव्यभेदे तद्विधिः हेमा० दा० मत्स्य पु० उक्तो यथा-- [] “अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम् । महाकल्प- लता नाम महापातकनाशनम् । पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् । ऋत्विग्मण्डपसम्भारभूषणाच्छाद- नादिकम् । तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम्” । आदिशब्दव्याख्यानं पूर्ववत् (कल्पपादपोक्तवत्) । “चामीक- रमयीः कुर्य्यात् दश कल्पलताः शुभाः । नानापुष्पफलोपेता नानांशुकविभूषिता । विद्याधरसुपर्णानां मिथुनैरुपशो- भिताः । हरीनादित्सुभिः सिद्धैः फलानि च विहङ्गमैः” । चामीकरं, सुवर्णं कल्पलतास्तुलाकारा विधेयाः, । नानाफलानि, पुंस्त्रीगोगजवाजिप्रभृतीनि, स्वरूपपुष्प- फलानां तुलनार्थत्वेनैवोपपत्तेः । अंशुकानि, वस्त्राणि । सुपर्णाः पक्षिणः । एवं दश कल्पलता विधाय वेदिकायाम् लिखितचक्रस्योपरि मध्ये द्वयं, पूर्व्वादिदिक्षु चाष्टौ स्थापयेत् । “लोकपालानुसारिण्यः कर्तव्यास्तासु देवताः । ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत् । अधस्ताच्च तयोर्मध्ये पद्मशङ्खकरे शुभे” । लोकपालानु- सारिण्यो देवता, लोकपालशक्तय इत्यर्थः । अधस्ताच्च तयोरिति, मध्यस्थापितयोः कल्पलतयोरधस्तात् पद्म- करां ब्राह्मीं, शङ्खधरामनन्तशक्तिञ्च स्थापयेत् । लव- णादिपरिमाणञ्च, परिमाणविशेषानिर्देशात् पुरुषेच्छया नियम्यते । लवणस्तूपयोर्न्यस्येदिति क्वचित् पाठः । तत्र स्तूपो राशिः द्विवचनं राशिद्वयापेक्षयेति । “इभासनस्था तु गुडे पूर्वतः कुलिशायुधा । रज- न्यजस्थिताऽऽग्नेयी स्रुवपाणिरयानले । याम्या महिषमा- रूढा गदिनी तण्डुलोपरि । पृतेन नैरृती स्थाप्या सखड्गा दक्षिणापरे । वारुणे वारुणी क्षीरे झषस्था नागपाशिनी । पताकिनी च वायव्ये मृगस्था शर्करो परि । सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता । माहेश्वरी वृषगता त्वीशपाणिः त्रिशूलिनी” । इभो- गजः स च चतुर्दन्तोविधेयः, कुलिशं, वज्रं, रजन्य- जस्थितेति, रजनी, हरिद्रा, अजः, छागः, हरिद्री- परिस्थापिता छागवाहनेत्यर्थः अनले, आग्नेयदिग्भागे, दक्षिणापरे नैरृतदिग्भागे नैरृती प्रेतवाहनेत्यवधेयं, झषस्था मकरवाहनेत्यर्थः । निधिसंस्थितेति निधिरूपं कलशानुकारि । “मौलिन्योवरदास्तद्वत् कर्त्तव्या बालि- कान्विताः । शक्त्या पञ्चपलादूर्द्धमा सहस्रात् प्रकल्प- येत् । सर्व्वासामुपरिष्टाच्च पञ्चवर्णं वितानकम् । धेन- वो दश कुम्भाश्च वस्त्रयुस्मानि चैव हि” । मौलिन्यो [] मुकुटघराः, वरदा इति, यथोक्तायुधधारिणः करादि- तरेण करेण वरदमुद्रान्विताइत्यर्थः । “बालिका, कर्ण- भूषणं (वालि) बालकान्विता इति क्वचित्पाठः तदा वामोत्स- ङ्गस्थितवालकाइति व्याख्या । एतच्च पञ्चपलादिपरिमि- तकल्पलताकरणोपकॢप्तसुवर्णेनैव विभज्य सर्वं कर्त्तव्यं, पृथग्द्रव्येण कर्त्तव्यानुपदेशात् । “मध्यमे द्वे तु गुरवे ऋत्विग्योऽन्यास्तथैव च । ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः । त्रिः प्रदक्षिणमावृत्य मन्त्रानेतानुदी- रयेत्” । तत इति होमाधिवासनपुण्याहवाचनादि पूर्वोक्तकर्मकलापानन्तर्यमुच्यते, स्नात इति कुण्डसमी- पवर्त्तिकलशस्थितसर्वौषधिजलेन ऋत्विग्भिः स्नापितः, गृहीतकुसुमाञ्जलिरित्यपि ज्ञेयम् । अत्र मन्त्रः “नमो- नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः । आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथाकल्पलताबधूभ्यः” । अथ पूर्ववत् प्रयोगमुच्चार्य्य मध्यमे द्वे देवतादिसहिते कल्पलते गुरवे प्रतिपाद्य शेषा ऋत्विग्भ्यः प्रतिपादयेत् । तदनुज्ञया अन्येभ्योऽपि दानं दीनानाथपूरणं, स्वल्पे- त्वेकाग्निविधानं चेति पूर्वोक्तमनुस
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।