कशिपु पु० कशति दुःखम् कश्यते वा कश--गतिशासनयोः मृगय्वा० नि० । १ अन्ने आच्छादने च २ अमरः । एक- शक्त्या ३ भक्ताच्छादनयोश्च विश्वः । पुष्पवन्तावित्यत्रेव अयं द्विवचनान्तः इति मेदि० । ४ शय्यायाम् । “कॢप्तैः कशिपुभिः कान्तं पर्य्यङ्कव्यजनाशनैः” भाग० ३, २३, १६ । “चेदस्ति भूः किं कशिपोः प्रयासैः” भा० २, २, ५ । “कशिपोः शय्यायाः” श्रीधरः । ५ आसनभेदे च “क्वचिच्छये वरोपस्थे तृणपर्ण्णाश्मवेश्ममु । क्वचित् प्रासादपर्य्यङ्के कशिपौ वा यथेच्छया” भाग० ७, १३, ३७ । वेदे अस्य क्लीवत्वमपि “प्रमुच्याश्वं दक्षिणेन वेदिम् हिर- ण्मयं कशिपूपस्तृणाति तस्मिन् होतोपविशति” “हिर- ण्मययोः कशिपुनोः पुरस्तांत् प्रत्यङ्ङध्वर्य्युः” शत० ब्रा० १३, ४, ३, १ । “कशिपु आसनभेदः । “होत्रध्वर्य्यू हिरण्मययोः कशिपुनोरुपविष्टौ” कात्या० १५, ६, १ । कशिपुशब्देन मसूरक उच्यते । “फलकमिति पितृभूतिः” सं० व्या० । “अध्वर्य्युयजमानौ कूर्चयोः” “फलकयोर्वा, होतृब्रह्मोद्गातारः कशिपुषु” कात्या० २०, २, २, १९, २०, २१ । “सपादमासनं कूर्चः (कुरछीचौकी) “पादरहितं फलकं कशिपुशब्देन मृद्वासनं मसूरक उच्यते” संग्र० व्या० । तेन मृद्वासनं पादरहितं फलकं च कशिपुशब्दार्थः ।
📄 मूल मुद्रित पृष्ठ (1835,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।