कायव्य पु० भारतोक्ते दस्युप्रभुभेदे तदुत्पत्तिकथादि भा० शा० १३५ अ० यथा । “निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः । काय- व्यो नाम नैषादिर्दस्युत्वात् सिद्धिमाप्तवान् । अरण्ये सायं पूर्व्वाह्णे मृगयूथप्रकीपिता । विधिज्ञो मृगजातीनां नैषादानाञ्च कोविदः । सर्व्वकालप्रदेशज्ञः पारियात्र- चरः सदा । धर्भज्ञः सर्व्वभूतानाममोघेषुर्दृढायुधः । अप्यनेकशता सेना एक एव जिगाय सः । स वृद्धावन्ध- बधिरौ महारण्येऽभ्यपूजयत् । मधुमांसैर्मूलफलैरन्नैरु- च्चावचैरपि । सत्कृत्य भोजयामास मान्यान् परिचचार च । आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन् । अपि तेभ्यो मृगान् हत्वा निनाय सततं वने । येऽस्मान्न प्रतिगृह्णन्ति दस्युतो जनशङ्कया । तेषामासज्य गेहेषु कल्य एव स गच्छति । बहूनि च सहस्राणि ग्रामणीत्वे- ऽभिवव्रिरे । निर्मर्य्यादानि दस्यूनां निरनुक्रोशवर्त्तिनाम् । दस्यवः ऊचुः । मुहूर्त्तदेशकालज्ञः प्राज्ञः शूरो दृढ- व्रतः । ग्रामणीर्भव नो मुख्यः सर्वेषामेव सङ्गतः । यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा । पालयास्मान् यथान्यायं यथा माता यथा पिता । कायव्य उवाच । सा बधास्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् । नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः । सर्व्वथा स्त्री न हन्तव्या सर्व्वसत्त्वेषु केनचित् । नित्यन्तु ब्राह्मणे स्वस्ति योद्धव्य्ञ्ज तदर्थतः । सत्यञ्च नाभिहन्तव्यं सारबिघ्नञ्च मा कृथाः । पूज्यते यत्र देवाश्च पितरोऽतिथ- यस्तथा । सर्व्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति । कार्य्या चोपचितिस्तेषां सर्व्वस्वेनापि या भवेत् । यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् । न तस्य त्रिषु लोकेषु त्राता भवति कश्चन । यो ब्राह्मणान् परिवदेद्वि- नाशञ्चापि रोचयेत् । सूर्य्योदय इव ध्वान्ते ध्रुवं तस्य परा- भवः । इहैव फलमासीनः प्रत्य काङ्क्षेत सर्वशः । ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यति । शिष्ठ्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः । ये च शिष्टान् प्रवाधन्ते दण्डस्तेषां बधः स्मृतः । ये च राष्ट्रापरोधेन वृद्धिं कुर्वन्ति केचन । तदैव तेऽनुमीयन्ते कुणपे क्रमयो यथा । ये पुनर्द्धर्म्मशास्त्रेण वर्त्तेरन्निह दस्यवः । अपि ते दस्यवो भूत्वा क्षिप्र सिद्धिमवाप्नुयुः” ।
📄 मूल मुद्रित पृष्ठ (1931,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।