कार्पासः, पुं, क्ली, (कर्पास एव । स्वार्थे अण् ।) कर्पास- वृक्षः । कापास् इति भाषा ॥ (अस्य पत्रादिना सर्पदष्टः पुरुषो नीरोगो भवति । इदानीं पत्रा- दीनां व्यवहारक्रम उच्यते । दंशनानन्तरमेव दष्टं पुरुष सार्द्धद्वितोलक- परिमितः कार्पासपत्ररसः पाययितव्यः । अथ क्षतप्रदेशं विधौतं परिष्कॄतञ्च विधाय तत्र पत्र- रसः प्रदेयः । क्षतस्थानोपरि च कार्पासपत्रैः प्रलेपो दातव्यः । एवं कृतेऽपि यदि शरीरस्य कश्चिदंशः स्फीतो भवेत् तदा तत्रैव एतत्पत्र- रसेन पेषयितव्यम् । आसुस्थात् प्रतिसपाददण्ड- मेवं कृते सर्पदष्टः पुरुषः सुस्थो भविष्यतीति निश्चयः ॥)
कार्पासं, त्रि, (कर्पास्याः विकारे अवयवे वा अण् विल्वाद्यण् वा ।) कार्पासजातवस्त्रादि । तत्पर्य्यायः । फालम् २ वादरम् ३ । इत्यमरः । २ । ६ । १११ ॥ (यथा, महाभारते २ । ५० । २४ । “श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” ॥)
📄 मूल मुद्रित पृष्ठ (2-107-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।