कुम्भीक पु० कुम्भीव कायति कै--क । १ पुन्नागवृक्षे । रत्न- मा० २ कुम्भिकायां (पाना) कुम्भीकवीजप्रतिमाः” सुश्रुतः सुश्रुते अयं प्रियङ्ग्वादिगणे उक्तः यथा “प्रियङ्गुसमङ्गाघातकीपुन्नागरक्तचन्दनचन्दननोचरसरसा- ञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति” । तत्र पुन्नागस्य पृथक्कीर्त्तनात् कुम्भिकापरत्वम् । सुश्रुते नेत्ररर्त्मस्थे ३ रोगभेदे कुम्भिकाशब्दे तद्वाक्य- मुदाहृतम् तत्रोक्ते ४ शूकरोगोपद्रवभेदे च यथा “अथातः शूकदोषनिदानं व्याख्यास्यामः । लिङ्गवृद्धिमि- च्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते । तद्यथा सर्षपिका, अष्ठीलिका, ग्रथितम्, कुम्भीका, अलजी, मृदितम्, सम्मूढपि- डका, अवमन्थः, पुष्करीका, स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणितार्वुदम्, मांसार्वुदम्, मांसपाकः, विद्रधिः, तिलकालकश्चेति” इति विभज्य तल्लक्षणमुक्तं यथा “कुम्भीका तक्तपित्तोत्था जाम्बवा- स्थिनिभाऽशुभा” “कुम्भिका रक्तपित्ताभ्यामिति भावप्र० ह्रस्वमध्यपाठस्तु लिपिकरप्रमाद्यत् । ततः समूहे खलादि० इनि । तद्रो- गसमूहे स्त्री “कुम्भीकिनीं शर्कराञ्च तयैवोत्सङ्गिनी- मपि” “कुम्भीकिनी सह शर्करया लेख्या” सुश्रुतः सुश्रुतोक्ते क्लीवभेदे पु० “स्वे गुदे ब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते कुम्भीकः सच विज्ञेयः । इत्युक्त्वा” “आसेक्यश्च सुगन्धी च कुम्भीकः सेर्ष्यकस्तथा । अरेतसैपे ज्ञेया अ- शुक्रः पण्डसंज्ञितः” तल्लक्षणं तत्रोक्तम् ।
📄 मूल मुद्रित पृष्ठ (2119,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।