कुकुन्दरं, क्ली, (स्कुन्द्यते कामिनाऽत्र । स्कुदि आप्ल- वने मद्गुरादयश्चेति निपातनात् साधुः ।) नितम्ब- स्थकूपकद्वयम् । पृष्ठवंशादधोगर्त्तद्वयम् । इत्यमरः । २ । ६ । ७९ ॥ कुकुन्दरे इति द्विवचनान्तोऽपि प्रयोगः ॥ (यथा सुश्रुते शारीरस्थाने । ६ अ ॥ “पार्श्वजधनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च” ॥)
कुकुन्दरः, पुं, (कुं भूमिं दरयति दारयति वा अन्त- र्भूतण्यन्तात् दॄ अण् निपातनात् वृद्ध्यभावेन साधुः । कु ईषत् कुत्सितं वा कुन्दरमत्र ।) कुक्कुरद्रुः । कुकुरौदा इति हिन्दी भाषा । तत्- पर्य्यायगुणाः । यथा भावप्रकाशे ॥ “कुकुन्दरस्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः । कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः ॥ तन्मूलमार्द्रं निःक्षिप्तं वदने मुखशोषहृत्” ॥ (पुंलिङ्गोऽयं शब्दोऽपि नितम्बस्थकूपकद्वये वर्त्तते यथा ॥ “पृष्ठवंशं ह्युभयतो यौ सन्धी कटिपार्श्वयोः । जघनस्य वहिर्भागे मर्म्मणी तौ कुकुन्दरौ” ॥ इति वाभटे शारीरस्थाने । ४ अध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-133-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।