कुटन्नटं, क्ली, (कुटन् वक्रीभवन् सन् नटति । नट स्पन्दने + पचाद्यच् ।) कैवर्त्तीमुस्तकम् । इत्यमरः । २ । ४ । १३१ ॥ केउटिया मुता इति ख्यातम् । केशुर इति नीचोक्तिः । इति तट्टीका ॥ (अस्य व्यवहारो यत्र तद्यथा । “पद्मकं चन्दनोशीरं पाठं मूर्व्वां कुटन्नटम्” ॥ [] इति वाभटे चिकित्सास्थाने १० अध्याये । अस्य पर्य्यायाः यथा । “कुटन्नटं परं बल्यं मुस्ताभञ्च परीलवम्” ॥ इति वैद्यकरत्नमालायाम् ॥ कोसची मोथा । गुडतजी इति च । इयन्तु वितु- न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृतिः ॥ पर्य्यायाश्च-यथा । “कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च । मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे ॥ गुणा श्चास्य वितुन्नकशब्दे ज्ञातव्याः ॥)
कुटन्नटः, पुं, (कुटन् सन् नटति । नट् + अच् ।) श्योनाकवृक्षः । इत्यमरः । २ । ४ । ५७ ॥ (अस्य पर्य्याया यथा । “श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकः । मण्डूकपर्णपत्रोणं शुकनासकुटन्नटाः । दीर्घवृन्तो रलुश्चापि पृथुशिम्वः कटम्भरः” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ श्यो- नाकशब्देऽस्य गुणाश्च बोद्धव्याः ॥)
📄 मूल मुद्रित पृष्ठ (2-136-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।