🕉️ 20 November 2026, Friday · 04:38:48 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कुट्टक
kuṭṭaka
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कुट्टक संज्ञा पुं॰ [सं॰]
१. कूटने पीसनेवाला व्यक्ति ।
२. एक शिकारी पक्षी ।
३. गुणक [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कुट्टक mfn. ifc. cutting, breaking, bruising, grinding, &c. cf. अश्म-क्˚, इक्षु-क्˚
कुट्टक m. a grinder, pulveriser
a multiplier (= कुट्ट, q.v.)
a buck-goat with particular marks, VarBṛS.
a kingfisher, W.
📄 मूल मुद्रित पृष्ठ (288,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कुट्टकः 1 A grinder. --2 A kingfisher.
📄 मूल मुद्रित पृष्ठ (0407-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुट्टक त्रि० कुट्ट--ण्वुल् । छेदके “दन्तोलूखलिकः काल- पक्वाशी वाश्मकुट्टकः । १ लीलावत्यादौ प्रसिद्धे २ गणितोपयोगिक्रियाभेदे कुट्टकविधिश्च लीलावत्यां संक्षेपेणोक्तः वीजगणिते कुट्टकाध्यायं विशेषेणोक्तो यथा “भाज्योहारः क्षेपकश्चापवर्त्यः केनाप्यादौ सम्भवे कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चै- तद्दष्टमुद्दिष्टमेव । परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्त्तनं सः । तेनापवर्त्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञितौ स्तः । मिथोभजेत्तौ दृढभा- ज्यहारौ यावद्गिभाज्ये भवतीह रूपम् । फलान्य धोऽधस्तदधोनिवेश्यः क्षेपस्तथान्ते खमुपान्तिमेन । स्वो- [] र्द्ध्वेहतेऽन्त्येन युते तदन्त्यं त्यज्येन्मुहुः स्यादिति रा- शियुग्मम् । ऊर्द्ध्वोविभाज्येन दृढेन तष्टः फलं गुणः स्यादपरो हरेण । एवं तदैवात्र यदा समस्ताः स्युर्ल्लब्ध- यश्चेद्विषमास्तदानीम् । यदागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ स्तः । भवति कुट्टविधेर्युति भाज्ययोस्ममपवर्त्तितयोरथ वा गुणः । भवति यो युति- माजकयोः पुनः सच भवेदपवर्त्तनसङ्गुणः । गुणलब्ध्यो- स्रमं ग्राह्यं धीमता तक्षणे फलम् । हरतष्टे धनक्षेपे गुणलब्धी तु पूर्ववत् । योगजे तक्षणाच्छुद्धे गुणाप्ती स्तोवियोगजे । धनभाज्योद्भवे तद्वद्भवेतामृणभाज्यजे । क्षेपतक्षणलाभाढ्या लब्धिः शुद्धौ तु वर्ज्जिता । अथ वा भागहारेण तष्टयोः क्षेपभाज्ययोः । गुणः प्राग्व- त्ततोलब्धिर्भाज्याद्धतयुतोद्धृतात् । क्षेपाभावोऽथ वा यत्र क्षेपः शुध्येद्धरोद्धृतः । ज्ञेयः शून्यं गुणस्तत्र क्षेपो- हारहृतः फलम् । इष्टाहतस्वस्वहरेण युक्ते ते वा भवे तां बहुधा गुणाप्ती । उदाहरणम् । एकविंशतियुतं शतद्वयं यद्गुणंगणक! पञ्चषष्टियुक् । पञ्चवर्ज्जितशतद्व- योद्धृतं शुद्धिमेति गुणकं वदाशु तम् । न्यासः भा २२१ हा १९५ क्षेपः ६५ अत्र परस्परं भाजितयोर्भाज्यभा- जकयोःशेषम् १३ अनेन भाज्यहारक्षेपाअपवर्त्तिता- जाता दृढाः भा १७ हा १५ क्षेपः ५ अनयोर्दृढभाज्य- हारयोः परस्परं भक्तयोर्लब्धमघोधस्तदधः क्षेपस्तदधः शून्यं निवेश्यमिति न्यस्ते जाता वल्ली १ । ७ । ५ । ० उपान्तिमेन स्वोर्द्ध्वे हतैत्यादिकरणेन जातं राशिद्वयम् । ४० । ३५ एतौ दृढभाज्यहाराभ्यामाभ्यां १७ । १५ तष्टौ शेषमितौ लब्धिगुणौ अनयोःस्वतक्षणमिष्टगुणं क्षेप- इति । अथ वा लब्धिगुणौ २३ । २० वा४० । ३५ इत्यादीनि उदाहरणम् । शतं हतं येन युतं नवत्या विवर्ज्जितं वा विहृतं त्रिपष्ठ्या । निरग्रकं स्याद्वद मे गुणं तं स्पष्टं पटीयान्यदि कुट्टकेऽसि । न्यासः भा १०० हा ६३ क्षेपः ९० अत्र बल्ली १ । १ । १ । २ । २ । १ । ९ । ० उपा- न्तिमेनेत्यादिना जातं राशिद्वयं २४३० । १५३० पूर्बवल्ल- ब्धिगुशौ ३० । १८ अथ वा भाज्यक्षेपौ दशभिरपवर्त्तितौ भा १० हा ६३ क्षेपः ९ एभ्योऽपि पूर्बवद्बल्ली ० । ६ । ३ ९ । ० उपान्तिमेनेत्यादिना राशिद्वयम् २७ । १७१ पूर्ब- वज्जातौ लब्धिगुणौ ७ । ४५ । अत्र सब्धयोविषमा इति स्वतक्षणाभ्यामाभ्यां १० । ६३ शोधितौ जातौ बब्धिगुणौ ३ । १८ अत्र लब्धिर्न ग्राह्या गुणघ्नभाज्ये क्षेपयुते हर [] भक्ते लब्धिश्च ३० । अथ वा भाज्यक्षेपापवर्त्तनेन १० पूर्व्वानीता लब्धि ३ र्गुणिता जाता सैव लब्धिः ३० । अथ वा हारक्षेपौ नवभिरपवर्तितौ भा १०० हा ७ क्षे ३० पूर्व्व- वद्बल्ली १४ । ३ । १० । ० जातं राशिद्वयम् ४३० । ३० तक्षणे जातं ३० । २ हारक्षेपापवर्त्तनेन ९ गुणं सङ्गुण्य जातौ लब्धि गुणौ तावेव ३० । १८ । अथ वा माज्यक्षेपौ हारक्षेपौ चापवर्त्त्य न्यासः भा १० हा ७ क्षे १ अत्र जाता वल्ली १ । २ । १ । ० पूर्व्ववज्जातं राशिद्वयम् ३, २ तक्षणाज्जातं तदेव ३ । २ भाज्यक्षेपहारक्षेपापव- र्त्तनेन क्रमेण लब्धिगुणौ गुणितौ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुट्टकः, पुं, (कुट्टकः भाज्यभाजकादिगणनं यत्र ।) अङ्कविशेषः । तस्य सूत्रं यथा, “भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवेत् कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौ न तेन [] क्षेपश्चैतद्दुष्टमुद्दिष्टमेव” ॥ उदाहरणं यथा । “एकविंशतियुतं शतद्वयं यद्गुणं गुणकपञ्चषष्टियुक् । पञ्चवर्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाशु तम्” ॥ इति लीलावती ॥ (कुट्टयति उपलदन्तादिमिर्भि- नत्ति छिनत्ति चूर्णयति वा । कुट्ट छेदे + ण्वुल् । छेदके, त्रि । यथा, याज्ञवल्क्यः । ३ । ४९ । “दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः” ॥)
📄 मूल मुद्रित पृष्ठ (2-137-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कुट्टक" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें