कुब्जकः, पुं, (कौ पृथिव्यां उब्जति । उब्ज + ण्वुल् । शकन्ध्वादित्वात् उलोपे साधुः ।) पुष्पवृक्षविशेषः । कूजा इति ख्यातः । (यथा, शब्दार्थचिन्तामणि- घृतनृसिंहपुराणे । “चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम् । अशोकात् पुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् । सेवतीपुष्पसाहस्रात् कुब्जकः पुष्पमुत्तमम्” ॥ तत्पर्य्यायः । भद्रतरुणी २ वृत्तपुष्पः ३ अतिकेशरः ४ महासहः ५ कण्टकाढ्यः ६ खर्व्वः ७ अलिकुल- सङ्कुलः ८ वारिकण्टकः ९ । इति त्रिकाण्डशेषः ॥ अपि च । “कुब्जको भद्रतरणिर्वृहत्पुष्पोऽतिकेशरः । महासहा कण्टकाढ्या नीलालिकुलसङ्कुला” ॥ राजनिर्घण्टे महासहेत्यादिशब्दाः पुंलिङ्गाः । अस्य गुणाः । “कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः । त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः” ॥ इति भावप्रकाशः ॥ सुरभित्वम् । रक्तपित्तकफ- नाशित्वञ्च ॥ तत्पुष्पगुणाः । शीतलत्वम् । वर्णका- रित्वम् । दाहवातपित्तनाशित्वञ्च । इति राज- निर्घण्टः ॥
📄 मूल मुद्रित पृष्ठ (2-144-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।