कुलटा, स्त्री, (कुलात् व्यभिचारार्थं कुलान्तरं अट- तीति । कुल + अट् + अच् । शकन्ध्वादित्वात् अलोपः ।) व्यभिचारिणी । भ्रष्टा । (यथाह, आर्य्यासप्तशती ३९३ । “परपतिनिर्द्दयकुलटाशोषितशठ ! नेर्षया न कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य” ॥) तत्पर्य्यायः । पुंश्चली २ धर्षिणी ३ बन्धकी ४ असती ५ इत्वरी ६ स्वैरिणी ७ पांशुला ८ । इत्य- मरः । २ । ६ । १० ॥ धर्षणी ९ पांसुला १० । इति तट्टीका ॥ घृष्टा ११ दुष्टा १२ धर्षिता १३ । इति शब्दरत्नावली ॥ लङ्का १४ निशाचरी १५ त्रपा- रण्डा १६ । इति जटाधरः ॥ * ॥ परकीयान्तर्गत- नायिकाविशेषः । यथा, -- “एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वहन्ति न सृजन्त्येते पुनर्नायकान् । त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः ! कातरमालपामि कुल- टाहेतोस्त्वया किं कृतम्” ॥ इति रसमञ्जरी ॥ * ॥ अस्या अन्नभोजनप्रायश्चित्तं प्रायश्चित्तशब्दे अभो- ज्यान्नभक्षणप्रकरणे द्रष्टव्यम् ॥
📄 मूल मुद्रित पृष्ठ (2-152-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।