कुह त् क ङ विस्मायने । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-आत्मं-सकं-सेट् ।) ह्रस्वी । विस्मा- यनमन्यतो विस्मयोत्पादनम् । ङ कुहयते । कुह- केनेन्द्रजालिको लोकं विस्माययति इत्यर्थः । स्यातां कुहयते विस्मापयते हेतुतो भयमिति भट्टमल्लदर्शनाद्विस्मापने इति पाठ इत्येके । इति दुर्गादासः ॥
कुह, व्य, (“वा ह च छन्दसि” । ५ । ३ । १३ । [] इति हः । “कु तिहोः” । ७ । २ । १०४ । इति किमः कुः ।) कुत्र । वैदिकप्रयोगोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे २ । १२ । ५ । “यं स्मा पृच्छन्ति कुह सेतिघोरमुतेमाहुर्नैषो अस्तीत्येनम्” ॥)
कुहः, पुं, (कुहयति विस्माययति ऐश्वर्य्यप्रभावेन यः । कुह + णिच् + अच् ।) कुवेरः । इति हेमचन्द्रः ॥ (क्ली, माया । कुहकम् । यथा, रामायणे २ । १०९ । २७ । सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये । “अकुहः श्रद्दधानः सन् कार्य्याकार्य्यविचक्षणः” ॥)
📄 मूल मुद्रित पृष्ठ (2-167-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।