कैकस पु० कीकसमस्थि सारतयाऽस्त्यस्य प्रज्ञा० अण् । १ रा- क्षसे स्त्रियां शार्ङ्गरवा० ङीन् कैकसी । सा च २ सुमा- लिकन्याभेदे “राका पुष्पोत्कटा चैव कैकसी च शुचि- स्मिता कुम्भीनसी च इत्येताः सुमालेः प्रसवाः सुताः” रामा० उ० ६ स० । सा च रावणादिमाता तत्कथा रामा० उ० ९ स० “किं तु मां विद्धि ब्रह्मर्षे! शासनात् पितुरागताम् । कै- कसी नाम नाम्राहं शेषं त्वं ज्ञातुमर्हसि । स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे! कारणं यन्मनोगतम् । सुताभिलाषो मत्तस्ते मत्तमात- ङ्गगामिनि! । दारुणायां तु वेलायां यस्मात् त्वं मासु पस्थिता । शृणु तस्मात् सुतान् भद्रे! यादृशान् जनयिष्य- सि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् । प्रस- विष्यसि सुश्रोणि! राक्षसान् क्रूरकर्मणः । सा तु तद्व- चनं श्रुत्वा प्रणिपत्याब्रवीद्वचः । भगवन् नेदृशान् पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान् पसादं कर्तुमर्हसि । कन्यया त्वेवमुक्तस्तु विश्रवा मुनि पुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् । पश्चिमो यस्तव सुतो भविष्यति शुभानने! । मम वंशानु रूपः स घर्मात्मा च न संशयः । एवमुक्ता तु साकन्या राम । कालेन केनचित् । जनयामास वीभत्सं रक्षोरूपं सुदा- रुणम् । दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपगम् । [] ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् । तस्मिन् जाते ततस्तस्मिन् सज्वालाकवलाः शिवाः । क्रव्यादा- श्चापसव्यानि मण्डलानि प्रचक्रमुः । ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्योवै महोल्का- श्चापतन् भुवि । चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः । अथ ना- माकरोत् तस्य पितामहसमः पिता । दशग्रीवः प्रसूतोऽयं दशग्रीपो भविष्यति । तस्य त्वनन्तरं जातः कुम्भकर्णो- महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते । ततः शूर्पणखा नाम संजज्ञे विकृताननना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः” ।
📄 मूल मुद्रित पृष्ठ (2254-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।