कोकिलाक्षः, पुं, (कोकिलस्याक्षीव रक्तं पुष्पमस्य । “अक्ष्णोऽदर्शनात्” । ५ । ४ । ३६ । इति अच् ।) वृक्षविशेषः । कुलियाखाडा इति भाषा । तालम खाना इति हिन्दी भाषा ॥ तत्पर्य्यायः । इक्षुगन्धा २ काण्डेक्षुः ३ इक्षुरः ४ क्षुरः ५ । इत्यमरः । २ । ४ । १०४ ॥ शृगाली ६ शृङ्खली ७ शुरकः ८ शृगालघण्टी ९ वज्रास्थिः १० शृङ्खला ११ वज्र- कण्टकः १२ इक्षुः १३ इक्षुरकः १४ वज्रः १५ शृङ्खलीका १६ पिकेक्षणा १७ पिच्छिला १८ । इति राजनिर्घण्टः ॥ श्वेतस्य तस्य पर्य्यायः । वीर- तरुः २ त्रिक्षुरः ३ क्षुरकः ४ शुक्लपुष्पः ५ ॥ रक्तस्य तस्य पर्य्यायः ॥ छत्रकः २ अतिच्छत्रः ३ । इति रत्नमाला ॥ सामान्यस्य तस्य गुणाः । आमवात- वातरक्तरोगनाशित्वम् । इति राजवल्लभः ॥ मधुरत्वम् । शीतत्वम् । पित्तातिसारनाशित्वम् । शुक्रकफबलरुचिकारित्वम् । सन्तपर्णत्वञ्च । इति राजनिर्घण्टः ॥ (श्वेतकोकिलाक्षमूलं छागीदुग्धेन पिष्टं सत् भक्षितं क्षयरोगं नाशयेत् । यदुक्तं गारुडे १९३ अध्याये । “श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् । त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत्” ॥)
📄 मूल मुद्रित पृष्ठ (2-200-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।