क्रकचः, पुं क्ली, ग्रन्थिलवृक्षः । इति मेदिनी ॥ (ज्योतिषोक्तयोगभेदः । तस्य लक्षणं यथा, -- “षष्ठ्यादितिथयो मन्दाद् विलोमं क्रकचः स्मृतः” ॥ अस्य विवृतिर्यथा । “शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधे नवमी, भौमे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रकचाख्या विज्ञेयाः” । यथा, नारदोक्तिः । “त्रयोदशस्युर्मिलने सख्ययोस्तिथिवारयोः । क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हितः” ॥ * ॥ क्र इति कृत्वा कचति शब्दायते । कच शब्दे + पचाद्यच् ।) करपत्रम् । काष्ठविदारणास्त्रविशेषः । करात् इति भाषा । इत्यमरः । १ । १० । ३५ ॥ (यथा, महाभारते ३ । २२ । ३४ । “मध्येन पाटयामास क्रकचो दार्व्विवोच्छ्रितम्” ॥) “अथ क्रकचव्यवहारे करणसूत्रं वृत्तम् । पि- ण्डयोगदलमग्रमूलयोर्द्दैर्घसंगुणितमङ्गुलात्मकम् । दारुदारणपथैः समाहतं षट्स्वरेषु विहृतं करा- त्मकम् ॥ उदाहरणम् । मूले नखाङ्गुलमितोऽथ नृपाङ्गुलोऽग्रे पिण्डः शताङ्गुलमितं किल यस्य दैर्घ्यम् । तद्दारुदारणपथेषु चतुर्षु किं स्या- द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥ न्यासः २० क्राकच्यं दारुविषमं १६ १०० पिण्डयोगदलम् । १८ । दैर्घ्येण । १०० । संगुणितम् । १८०० । दारुदारणपथैः । ४ । गुणितम् । ७२०० । षट्स्वरेषु । ५७६ । विहृतं जातं करात्मकं गणि- तम् । २५/२ ॥ क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् । छिद्यते तु यदि तिर्य्यगुक्तवत् पिण्डविस्तृतिहते फलं तदा । इष्टिकाचितिदृषच्चितिखातक्राकच- व्यवहृतौ खलु मूल्यम् । कर्म्मकारजनसम्प्रति- पत्त्या तन्मृदुत्वकठिनत्ववशेन ॥ उदाहरणम् । यद्विस्ततिर्द्दन्तमिताङ्गुलानि पिण्डस्तथा षोडश यत्र कोष्ठे । छेदेषु तिर्य्यङ्नवसु प्रचक्ष्व किं स्यात् फलं तत्र करात्मकं मे ॥ [] विस्तृतिहतिः । ५१२ । दारुदारणमार्ग । ९ । घ्ना । ४६०८ । षट्स्वरेषु । ५७६ । विहृतं जातं फलं हस्ताः । ८ । इति लीलावत्यां क्रकचव्यव- हारः ॥ * ॥
📄 मूल मुद्रित पृष्ठ (2-212-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।