🕉️ 20 November 2026, Friday · 12:43:09 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्रिमि
krimi
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्रिमि संज्ञा पुं॰ [सं॰]
१. कीड़ा । कीट ।
२. पेट का एक रोग । विशेष—दे॰ कृमि ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्रिमि for कृमि, q.v.
📄 मूल मुद्रित पृष्ठ (320,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्रिमिः 1 A worm. --2 An insect. see कृमि. --Comp. --जं aloewood. --शैलः an ant-hill.
📄 मूल मुद्रित पृष्ठ (0430-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कृ(क्रि)मि पु० क्रम--इन् अतैत्त्वम् “भ्रमेः सम्प्रसारणञ्च” उ० इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा । १ क्षुद्रजन्तुभेदे उज्ज्व- ल० । “लुम्पन्ति कीटकृमयः परितस्तथैते” नागार्ज्जनीये ऋकारयुक्तपाठः । २ लक्षायां ३ कृमियुक्ते ४ खरे गर्द्दभे च मेदि० । ५ रोगभेदे पु० । तन्निदानादि सुश्रुते उक्तं यथा “अथातः कृमिरोगमध्यायं व्याख्यास्यामः । अजीर्ण्णाध्यश- नासात्म्यैर्व्विरुद्धमलिनाशनैः । अव्यायामदिवास्वप्नगुर्व्व- तिस्निग्धशीतलैः । माषपिष्टान्नविदलविसशालूकषेरुकैः । पर्ण्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः । पललानूपपिशित- पिन्याकपृथुकादिभिः । स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तञ्च कुप्यति । कृमीन् बहुविधाकारान् करोति विविधाश्रयान् । आमपक्वाशयस्तेषां प्रसवः प्रायशः स्मृतः । विंशतेः कृमि- जातीनां त्रिविधः सम्भवः स्मृतः । पुरीषकफरक्तानि तेषा वक्ष्यामि लक्षणम् । अयवा वियवाः किप्पा श्चिप्यागण्डू- पदास्तथा । चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः । श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च । तेषामेवापरे पुच्छैः पृ- थवश्च भवन्ति हि । शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलस- ङ्क्षयाः । प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः । रक्ता गण्डूपदा दोर्घा गुदकण्डूनिपातिनः । शूलाटोपशकृ- द्भेदपक्तिनाशकराश्चते । दर्भपुष्पाः १ महापुष्पाः २ प्रलूना ३ टिपिटा ४ स्तथा । पिपीलिका ३ दारुणाश्च ६ कफकोपसमु- द्भवाः । रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः । मूढधान्याङ्गुराकाराः शुक्लास्ते तनवस्तथा । मज्जादा १ नेत्रलेढार २ स्तालुश्रोतभुज ३ स्तथा । शिरोहृद्रोगवमथुप्रति- श्यायकराश्चते । केशरोमनखादाश्च ४ दन्तादाः ५ किक्कि- शा ६ स्तथा । कुष्ठजाश्र परीमर्प्पा ७ ज्ञेयाः शोणितसम्भ- वाः । ते सरक्ताश्र कृष्णाय स्रिग्धाश्च पृथयस्तथा । रक्ता- [] धिष्ठानजान् प्रायोविकारान् जनयन्ति ते । माषपिष्टान्न- लवणगुडशाकैः पुरीषजाः । मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः । विरुद्धाजीर्णशाकाद्येः शोणितोत्था भवन्ति हि । ज्वरो विवर्णता शूलं हृद्रोगः मदसंभ्रमः । भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् । दृश्यास्त्रयो- दशाद्यास्तु कृमीणां परिकीर्त्तिताः । केशादाद्यास्त्व- दृश्यास्ते द्वावाद्यौ परिवर्जयेत् । एषामन्यतमं ज्ञात्वा जिघांसुः म्निग्वमातुरम्” । “तुदन्त्यामत्वचं र्दशा मश- कामत्कुणादयः । रुदन्तं विगतज्ञानं क्रिमयः क्रिमिलं यथा” भाग०, ३, ३१, २८, स्वार्थे क तत्रार्थे “ततो भक्षयतस्तस्य फलात् कृमिरभू- दणुः । सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्” । “एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य तम् । कृमिकं प्राहसत्तूर्ण्णं मुमूर्षुर्नष्टचेतनः” भा० आ० ४३ अ० ।
क्रिमि पु० क्रम--इन् अतैच्च । १ कृमौ क्षुद्रजन्तौ उज्ज्वल० २ रोगभेदे कृमिशब्दे २१९४ पृ० विवृतिः । “क्रमयस्तु द्विधा- प्रोक्ताः वाह्याभ्यन्तरभेदतः । बहिर्मलकफासृग्विड्जन्म- भेदाच्चतुर्वधाः । नामतो विंशतिविधा बाह्यास्तत्र मलो- द्भवाः” “तिलप्रमाणसंस्थानवर्ण्णाः केशाम्बराश्रयाः । बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः” माधवः । “क्रिमयः क्रभिलं यथा” भाग० ३, ३१, २८,
📄 मूल मुद्रित पृष्ठ (2194-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्रिमिः, पुं, (क्रमु पादविक्षेपे । “क्रमितमिशतिस्तं- भामत इच्च” । उणां ४ । १२१ । इति इन् कित् अत इच्च ।) कीटः । द्रुमामयः । इत्यमरटीकायां भरतः ॥ रोगविशेषः । तस्य प्रकारो यथा, -- “क्रिमयस्तु द्विधा प्रोक्ता वाह्याभ्यन्तरभेदतः । वहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्व्विधाः ॥ नामतो विंशतिविधा वाह्यास्तत्र मलोद्भवाः । तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ [] बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः । द्विधा ते कोठपिडका कण्डूगण्डान् प्रकुर्व्वते ॥ * ॥ निदानम् यथा । “अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता । व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रमींश्च” ॥ पुरीषजनिदानं यथा, -- “मांसपिष्टान्नलवणगुडशाकैः पुरीषजाः” ॥ * ॥ कफजनिदानं यथा, -- “मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः” ॥ रक्तजनिदानं यथा, -- “विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि” ॥ अभ्यन्तरक्रिमिलक्षणं यथा, -- “ज्वरो विवर्णता शूलं हृद्रोगच्छर्द्दनं भ्रमः । भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्” ॥ कफजरूपं यथा, -- “कफादामाशये जाता वृद्धाः सर्पन्ति सर्व्वतः ॥ पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः । रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ॥ श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते । अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ॥ चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते । हृल्लासमास्यस्रवणमविपाकमरोचकम् ॥ मूर्च्छाच्छर्द्दिज्वरानाहकार्श्यक्षवथुपीनसान्” ॥ * ॥ रक्तजरूपं यथा, -- “रक्तवाहिशिरास्थाना रक्तजा जन्तवोऽणवः ॥ अपादा वृत्तताम्राश्च सौक्ष्मात् केचिददर्शनाः । केशादा रोमविध्वंसा रोमद्वीपा उडुम्बराः ॥ षट् ते कुष्ठैककर्म्माणः सहसौरसमातरः” ॥ विड्जरूपं यथा, -- “पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः । वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः । तदास्योद्गारनिश्वासविड्गन्धानुविधायिनः ॥ पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः । ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः ॥ सौस्वरादाः सशूलाख्या लेलिहा जनयन्ति हि” ॥ विमार्गगक्रिमिलक्षणं यथा, -- “विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः । रोमहर्षाग्निसदनगुदकण्डूर्विमार्गगाः” ॥ इति माधवकरः ॥ (अस्य सहेतुकलक्षणचिकित्सितानि यथा, -- “इह खल्वग्निवेशविंशतिविधाः क्रिमयः पूर्व्व- मुक्ता नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः । ते पुनः प्रकृतिभिर्भिद्यमानाश्चतुर्व्विधास्तद्यथा । पुरीषजाः श्लेष्मजाः शोणितजाः मलजाश्चेति । तत्र मलो वाह्यश्चाभ्यन्तरश्च । तत्र वाह्ये मले जातान् मलजान् सञ्चक्ष्महे, तेषां समुत्थानं मृजावर्ज्जनं, स्थानकेशश्मश्रुलोमपक्ष्मवासांसि, संस्थानमणवस्तिलाकृतयो बहुपादा वर्णः कृष्णः शुक्लश्च, नामानि यूकाः पिपीलिकाश्चेति, प्रभावः कण्डूजननं कोठपिडकाभिनिर्व्वर्त्तनञ्च, चिकि- [] त्सितं त्वेषामपकर्षणं मलोपघातो मलकराणाञ्च भावानामुपसेवनमिति । शोणितजानान्तु कुष्ठैः समानं समुत्थानं, स्थानं रक्तवाहिन्यो धमन्यः, संस्थानमणवो वृत्ताश्चापादाश्च सूक्ष्मत्वाच्चैके भव- न्त्यदृश्याः, वर्णस्ताम्रः, नामानि केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातर इति । प्रभावः केशश्मश्रुनखलोमापध्वंसो ब्रणगतानाञ्च हर्षकण्डूतोदसंसर्पणान्यवृद्धानाञ्च त्वक्सिरास्नायु- मांसतरुणास्थिभक्षणमिति, चिकित्सितमप्येषां कुष्ठैः समानं तदुत्तंरकालमुपदेक्ष्यते । श्लेष्मजाः क्षीरगुडतिलमत्स्यानूप-मांस-पिष्टान्न- परमान्नकुसुम्भस्नेहाजीर्ण-पूतिक्लिन्नसङ्कीर्ण-विरु- द्धासात्म्यभोजनसमुत्थानाः । तेषामाशंयः स्थानं प्रवर्द्धमानास्तूर्द्ध्वमधो वा विसर्पन्ति, उभ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें