क्रीड खेलने भ्वा० पर० अक० सेट् । क्रीडति अक्रीडीत् । चिक्रीड क्रीडिता । क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता । क्रीडः । क्रीडा । क्रीडितः । क्रीडनं क्रीडितुम् । क्रीडि- त्वा विक्रीद्व्य । “एष सोमो अधित्वचि गवां क्रीडत्यद्रिभिः” ऋ० ९, ६६, २६, “माता च पिता च तेऽग्रे वृक्षस्य क्री- डतः” यजु० २३, २५, चिक्रीड चैव प्रजहास चैव” भा० व० १०४२ श्लो० “क्रीडारसं निर्विशतीव नाल्ये” कुमा । अस्मादर्षे प्रयोगे तङपि दृश्यते । ब्रह्मशङ्करशक्राद्यैर्देववृ- न्दैः पुनः पुनः । क्रीडमे त्वं मरव्याघ्र । बालः क्रीडनकै- रिव” भा० व० ५०४ श्लो० अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र “क्रीडो- ऽनुसंपरिभ्यश्च” पा० एम्यः चकारात् आङश्च तङ् साध्व- नुक्रीडमानानि पस्य वृन्दानि पक्षिणाम्” भट्टिः । आ- क्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ” भा० व० [] १४६ अ० । “फलान्यादत्स्व चित्राणि परिक्रीडख सानु- षु” भट्टिः । “मरुतस्तमभितः परिचिक्रीडुः” शत० व्रा० २, ५, २, २०, आर्षस्तङभावः । समस्तु अकूजने अव्य- क्तशब्दामावे एव तङ । “समोऽकूजने” वार्त्तिककृता नियमात् “हरः संक्रीडमानश्च उमया सह पर्व्वते” रामा० आ० ४७, १०, तेनास्य कूजनार्थताऽपि किन्तु तत्र न तङ् “संक्रीडति चक्रम्” सि० कौ० । “तैस्तैर्वि- हारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः संक्रीडतां तेषाम्” भा० आ० २०९ अ० । अत्र आर्षः तङभावः ।
क्रीड पु० क्रीड--घञ् । परीहासे शब्दरत्ना० ।
📄 मूल मुद्रित पृष्ठ (2334-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।