क्लीव, ऋ ङ अधार्ष्ट्ये । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । अधा- र्ष्ट्यमप्रगल्मीभावः । ङ, शोकेन क्लीवते सर्व्वः । इति हलायुधः । ऋ, अचिक्लीवत् । इति दुर्गा दासः ॥
क्लीव, ऋ ङ वान्तवत् । (भ्वां--आत्मं--अकं--सेट् ।) ऋ, अचिक्लीवत् । ङ, क्लीवते । वान्तवदिति क्लीवृङ अधार्ष्ट्ये इत्यर्थः । इति दुर्गादासः ॥
क्लीवः, पुं क्ली, (क्लीवृङ अध्यार्ष्ट्ये “इगुपधेति” । ३ । १ । १३५ । इति कः ।) स्त्रीपुरुषभिन्नः । तत्पर्य्यायः । पण्डः २ नपुंसकम् ३ तृतीयाप्रकृतिः ४ शण्डः ५ । इत्यमरः । २ । ६ । ३९ ॥ तृतीयप्रकृतिः ६ षण्डः ७ सण्डः ८ शण्ढः ९ । इति तट्टीका ॥ पुरष- त्वहीनः । तस्य लक्षणम् । यथा, उद्वाहतत्त्वे । “न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीवः स उच्यते” ॥ (यथा, पराशरसंहितायाम् । “नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते” ॥ क्लीवस्तु चतुर्द्दशप्रकारः । यथाह नारदः । “चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः । चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात् ॥ निसर्गषण्डोऽनण्डश्च पक्षषण्डस्तथैव च । अभिशापाद्गुरो रोगाद् देवक्रोधात् तथैव च ॥ ईर्ष्याषण्डस्तथाऽसेक्यो वातरेता मुखेभगः । आक्षेप्ता मोघवीजश्च शालीनोऽन्यापतिस्तथा ॥ तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत् । अनुक्रमात् त्रयस्याथ कालः संवत्सरः स्मृतः ॥ ईर्ष्याषण्डादयो येऽन्ये चत्वारः समुदाहृताः । त्यक्तव्यास्ते पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ आक्षेप्तृमोघवीजाभ्यां कृतेपि पतिकर्म्मणि । पतिरन्यः स्मृतो नार्य्या वत्सरार्द्धं प्रतीक्ष्य तु ॥ शालीनस्यापि दृष्टस्त्री संयोगादुच्छ्रयेद्ध्वजः । तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत् ॥ अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । लभेत स्वाम्यं भर्त्ता नो एतत्कार्य्यं प्रजाकृते ॥ अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं वीजिनो नराः । क्षेत्रं वीजवते देयं सवीजी क्षेत्रमर्हति” ॥)
क्लीवः, त्रि, बिक्रमहीनः । इत्यमरः । ३ । ३ । २१२ । [] (यथा, महाभारते ३ । अर्ज्जुनाभिगमने । ३३ । १३ । “कच्चिद्राजन् न निर्व्वेदादापन्नः क्लीवजीविकाम्” ॥ धर्म्मकार्य्यादौ निरुत्साहः । यथा, मनौ ३ । १६५ । “आचारहीनः क्लीवश्च नित्यं याचनकस्तथा” ॥)
📄 मूल मुद्रित पृष्ठ (2-222-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।