🕉️ 19 November 2026, Thursday · 08:39:49 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्वाथ
kvātha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्वाथ संज्ञा पुं॰ [सं॰]
१. पानी में उबालकर औषधियों का निकाला हुआ गाढ़ा रस । काढ़ा । जोशांदा । विशेष—जिस औषधि का क्वाथ बनाना हो उसे एक पल लेकर सोंलह पल पानी में भिगोकर मिट्टी के बरतन में आग पर चढ़ा देते है, और जब उसका आठवाँ अंश बाकी रह जाता है, तब उतार लेते हैं । यदि औषधि अधिक और तौल में एक कुड़व तक हो, तो उसमें आठगुन जल औऱ यदि एक कुड़व से अधिक हो, तो उसमें चौगुना जल देना चाहिए और क्रम से, आधा और तीन चौथाई बच रहने पर उतार लेना चाहिए ।
२. व्यसन ।
३. बहुत अधिक दु:ख ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्वाथ m. (g. ज्वलादि) boiling, Yājñ. iii, 253, Sch.
a decoction, any solution or infusion prepared with a continued or gentle heat, VarBṛS. vli, 49; Suśr.; ŚārṅgS.
the mixture of the materials for a decoction, W.
pain, sorrow, distress, L.
क्वाथ &c. See √ क्वथ्.
📄 मूल मुद्रित पृष्ठ (324,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्वाथः [क्वथ्-करणे घञ्] 1 A decoction, solution prepared with a continued or gentle heat. --2 The mixture of the materials for decoction. --3 Pain, sorrow, distress. --Comp. --उद्भवं blue vitriol used as a collyrium.
📄 मूल मुद्रित पृष्ठ (0434-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्वाथ पु० क्वथ--करणे घञ् । १ अतिदुःखे हेम० । दुःखेन हि चित्तं क्वय्यमानमिव भवतीति तस्य तथात्वम् वैद्यकोक्ते जलादेः पाकभेदे यथा भावप्रकाशे “पानीयं षोडशगुणं क्षुण्णं द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम् । कर्षादौ तु पलं याव- द्दद्यात् षोडशिकं जलम् । ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् । चतुर्गुणमतश्चोर्द्धं यावत्प्रस्थादिकं जलम् । षोडशिकं षोडशगुणम् । “तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् । शृतः क्वाथः कषायश्च निर्यूहः स विगद्यते” । क्वाथपानमात्रामाह “मात्रोत्तमा पले तत् स्यात् त्रिभिरक्षैस्तु मध्यमा । जघन्या च पलार्द्धेन स्नेहकाथौषधेषु च । तन्त्रान्तरे “क्वाथ्यद्रव्यपले वारि द्वि- रष्टगुणमिव्यते । चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम् । दीप्तानलं महाकायं पाययेदञ्जलिं जलम् । अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चित्किसकाः । क्काथत्यागमनिच्छन्त- स्त्वष्टभागावशेषितम् । पारम्पर्योपदेशेन वृद्धवैद्याः पल- द्वयम्” । अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गु- रुत्वात् दीप्तानलं महाकायं पलद्वयं पाययेन्मध्यमाग्नि मल्पकायं पलमात्रं पाययेत् मात्रोत्तमा पलेनस्यादित्यादि वचनात् । “काथे क्षिपेत् सिताश्चां शैश्चतुर्थाष्टमषोडशैः । वातपित्तकफातङ्के विपरीतं मधु स्मृतम् । जीरकं गुग्गु- लुं क्षारं लवणं च शिलाजतु । हिङ्गु त्रिकटुकं चैव क्वाथे शाणोन्मितं क्षिपेत् । क्षीरं घृतं गुडं तैलं मूत्रं चान्यत् द्रयं तथा । कल्क चूर्णा दकं क्वाथे निःक्षिपेत् कर्षसंमितम् । तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः । औषधं हेमरजतमृद्भाजनपरिस्थितम् । पिवेत् प्रसन्न- हृदयः पीत्वा पात्रमधोमुखम् । बिधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत्” । क्वाथसेवनप्रकारादि भावप्र० दर्शितं यथा “तत्रानुक्ते प्रभातं स्यात्कषायेषु विशेषतः । मुखयभैषज्यस- म्बन्धो निषिद्धस्तरुणज्वरे । तोयपेयादिसंस्कारे त्वदोषं तत्र भेषजम्” । मुख्यभेषजं क्वाथः तस्य सम्बन्धः पानम् । यतआह “न कषायं प्रशंसन्ति नराणां तरुणे ज्वरं । [] कषायेणाकुलीभता दोषा जेतुं सुदुस्तराः” । आकुली- भूताः प्रवृद्धाः स्वमार्गं परिन्यज्य इतस्ततेगताः । अत्र कषायशब्देन क्वाथो गृह्यते । उक्ताश्च क्वाथस्य पर्य्यायाः । “शृतं काथःकषायश्च निर्य्यूहः स निगद्यत, इति । “तो- यपेयादिसंस्कारे निर्द्दोषं तत्र भेषजमिति” । तत्र तरु- णज्वरे भेषजम् मुख्यभेषजं क्वाथरूपं न तु कल्कनमु- द्दिश्य कषायः प्रतिषिध्यत इति कल्कनं तोयपेयायवा- ग्वादिकम् । ननु “स्वरसश्च तथा कल्कः काथश्च हिमफाण्टकौ । ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथो- त्तरम्” इति वचनात् स्वरसादयोऽपि कथं न निषिध्यत्ते । तत्राह “तत्र यस्तु कषायः स्यात्स वर्ज्ज्यस्तरुणज्वरे” इति । चतुर्थमागावशेषकरणेनाष्टमभागशेषकरणे च कषायवर्णः कषायरसश्च स्यात् । स कषायः क्वाथः स तरुणज्वरे निषिद्धः । कषायस्य लक्षणमाह, “पादशिष्टः कषायः स्यात्” । अतः षडङ्गादिस्तरुणज्वरे न निषिद्धः पाकादूर्द्धपाके चोक्तलक्षणाभावेन कषायत्वाभाबात् । अथ तरुणज्वरे कषायस्य दोषमाह “दोषा वृद्धाःकषा- येण स्तम्भितास्तरुणज्वरे । स्तभ्यन्ते न विपच्यन्ते कुर्व- न्ति विषमज्वरम्” । कषायेण स्तम्भिता प्रवृत्तये निवा- रिताः । यत आह कषावरसगुणात् “कषायः स्तम्भनः शीतोरूक्षः पित्तकफापहः” इत्यादि । स्तभ्यन्ते आध्मानं कुर्वन्ति न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वा- विलम्बेन विपच्यन्ते इति यावत्” ।
📄 मूल मुद्रित पृष्ठ (2351-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्वाथः, पुं, (क्वथ् + भावे घञ् ।) दुःखम् । व्यसनम् । द्रव्यनिष्पाकः । इति हेमचन्द्रः ॥ क्वाथ्यमानं तोयं त्रिविधम् । पादावशेषम् १ अर्द्धावशेषम् २ त्रि- पादावशेषञ्च ३ । अस्य नाम पारिभाषिको- ष्णोदकम् । तत्र त्रिपादावशेषं वातनाशकम् । अर्द्धावशेषं पित्तनाशकम् । पादावशेषं कफनाश- कम् । लघु अग्निवर्द्धकञ्च । तेषां मध्ये त्रिपादाव- शेषजलं हेमन्ते शिशिरे च प्रशस्तम् । वसन्ते पादावशेषजलं प्रशस्तम् । शरदि ग्रीष्मे च अ- र्द्धावशेषजलं प्रशस्तम् । वर्षायां अष्टभागावशेष- जलं प्रशस्तम् । तत्काले बहुदोषत्वात् । दिनपक्व- जलं रात्रौ गुरु रात्रिपक्वजलं दिवा गुरु । इति राजवल्लभः ॥ यथास्य करणप्रणाली ॥ “पानीयं षोडशगुणं क्षुणे द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥ तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् । शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते” ॥ इति शार्ङ्गधरेण मध्यखण्डे द्वितीयाध्याये उक्तम् ॥)
📄 मूल मुद्रित पृष्ठ (2-223-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "क्वाथ" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें