क्षुत न० क्षु--भावेक्त । क्षवथौ (हाँचि) अमरः क्षवथुशब्दे वि- [] वृतिः । क्षुतस्य शुभाशुभसूचकत्वं, वसत्तराजशाकुने ३ प्र० “अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रविभाव- यामः । नश्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथा- दिव वन्यसत्वाः । सर्व्वस्य सर्व्वत्र च सर्व्वकालं क्षुतं न कार्य्यं क्वचिदेव शस्तम् । यातुः क्षुते तेन न किञ्चिदेव कुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः । निषेधमग्रेऽक्षिणि दक्षिशे च धनक्षयं दक्षिणकर्णदेशे । तत्पृष्ठभागे कुरुते ऽर्थवृद्धिं क्षतं कदाचित् शुभमादध नि । भोगाय वाम- श्रवणस्य, पृष्ठे कर्णे च वामे कथितं जयाय । सर्व्वार्थला- भाय च वामनेत्रे जातं क्षुतं स्यात् क्रमशोऽष्टधैव । क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुतमुग्ररो- गम् । करेति रोगक्षयमर्थनाभं दीप्त्यादिनाशञ्च क्षुतं करेति । प्रागास्यपुंसः परतो ऽपरा स्यात् पुनः पुन- र्व्वातत एव जातम् । वृद्धाच्छिशोर्व्वा कफतो हठाद्वा जातं क्षुतं केऽपि वदन्ति शस्तम् । आद्यलयोर्न स्वज- ने प्रशस्तं क्षुतं प्रशंसन्ति न भोजनादौ । भवेत् कथ- ञ्चिद्यदि भोजनान्ते भवेत्तदाग्रे न हि भोज्यलाभः । आदौ क्षुतञ्चेत् शकुनैस्ततः किं जातानजातान् शकुना- न्निहन्ति । क्षुतं क्षणेनात्र न संशयोऽस्मिन् प्रयोजने यत्नकृतेऽपि जातम् । क्षुतं क्षणात्तद्विनिहन्त्यवश्यं वार्य्यात्मकेनापि मनागदोषम् । तस्मादपेक्ष्यं न विचक्ष- णेन क्षुतं यतश्चाशु फलं विधत्ते” । इति । “छिक्काया लक्षणं वक्ष्ये लभेत् पूर्वे महाफलम् । आग्ने- षे शोकसन्तापौ, दक्षिणे हानिमाप्नुयात् । नैरृते शोक- सन्तापौ, मिष्टान्नञ्चैव पश्चिमे । अन्नं प्राप्नोति वायव्ये, उत्तरे कलहो भवेत् । ईशाने मरणं प्रोक्तं, प्रोक्तं छिक्काफलाफलम्” गारुडपु० ६० अ० तिथित० वर्षकृत्यवाक्यम “वित्तं ब्रह्मणि, कार्यसिद्धिरतुला शक्रे, हुताशे भयं, याम्यामग्निभयं, सुरद्विषि कलि, र्लाभः समुदालये । वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे, एशान्यां मरणं ध्रुवं निगदितं दिग् लक्षणं खञ्जने । ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” इति । क्वचित्तस्य शुभसूचकता यथा “आसने शयने दाने भोजने व त्रसंग्रहे । विवाहे च विवाहे च क्षुतं सप्तसु शोभनम्” क्षतनिमित्तं शुद्ध्यर्थमाचमनं कर्त्तव्यम् यथाह याज्ञ० “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा वस्त्रोपसर्पणे । आचान्तः पुनराचामेत् वासोविपरिधाय च” । अशक्तौ स्मृतिः “क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थ एषु [] नाचामेत् दक्षिणं श्रवणं स्पृशेत्” । अन्यक्षुते जीवश्बदः प्रयोज्यः यथा मदनपरिजातधृतम् “जीवेति क्षवतो ब्रूयात् जीवेत्युक्ते त्वया सहेति” “क्षुतोत्पतनजृम्भासु जीवोत्तिष्ठाक्षुलिध्वनिः । शत्रोरपि च कर्त्तव्योह्यन्यथा ब्रह्महा भवेत्” ति० त० । “दीर्घायुष्कृत् क्षुतं दीर्घं युगपद्द्वि त्रिपिण्डितम्” काशीख० स्त्रीलक्षणे । असंयुतमुखस्य क्षुत- करणंनिषिद्धं यथा विष्णुध० “नासंवृत्तमुखः कुर्य्याद्धास्यं जृम्भां तथा क्षुतम्” । “स्वनितं प्रतिक्षुतमिवोपशुश्रुवे” माघः ताजकोक्तायाम् २ अरिदृष्टौ अरिशब्दे ३५५ पृ० विवृतिः “क्षुताख्यदृष्ट्या न शुभंतदापि” । “क्षुतदृष्ट्या रिपोर्भ- यम्” नीलक० ।
📄 मूल मुद्रित पृष्ठ (2380-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।