🕉️ 25 November 2026, Wednesday · 08:41:44 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्षेत्रज
kṣetraja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्षेत्रज १ वि॰ [सं॰] जो क्षेत्र से उत्पन्न हो ।
क्षेत्रज २ संज्ञा पुं॰ [सं॰] धर्मानुसार बारह प्रकार के पुत्रों में से एक । वह पुत्र जो किसी अयोग्य या असमर्थ पुरुष की बिना संतानवाली स्त्री अथवा मृत पुरुष की बिना संतानवाली विधवा के गर्भ और नियुक्त देवर आदि के वीर्य से उत्पन्न हो । इस प्रकार का पुत्र अपनी माता के पति के स्वत्व का अधिकारी माना जाता है । कलियुग में इस प्रकार का पुत्र उत्पन्न करना वर्जित है ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षेत्र—ज mfn. produced in a field (as corn &c.), L.
क्षेत्र—ज m. (scil. पुत्र) ‘born from the womb’, a son who is the offspring of the wife by a kinsman or person duly appointed to raise up issue to the husband (this is one of the twelve kinds of issue allowed by the old Hindū law), Baudh.; Gaut.; Mn. ix, 159 ff.; Yājñ. i, 68 and 69; ii, 128
क्षेत्र—ज mfn. (a quarrel) arisen about land, Nār.
📄 मूल मुद्रित पृष्ठ (332,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षेत्रज पु० क्षेत्रे जायते जन--ड ७ त० । “यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य च । स्वधर्म्मेण नियुक्तायां स पुत्रः त्रेजः स्मृतः” इति मनूक्ते १ पुत्रभेदे नियोगधर्म्मश्च मनुनोक्त्वा निषिध्य च वाग्दानोत्तरमेव पतिमरणे विहितः यथा “देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्ग्नियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये । विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन । द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिर्व्वृत्त नियोगार्थं पश्यन्तो धर्म्मतस्तयोः । विधवायां नियोगार्थे निर्वृत्ते तु यथा- विधि । गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् । नि- युक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ । नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म्मं हन्युः सनातनम् । नोद्वाहिकेषु म- न्त्रेषु नियोगः कीर्त्त्यते क्वचित् । न विवाहविधावृक्तं विधवावेदनं पुनः । अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशा- सति । स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां सङ्करं चक्रे कामोपहतचेतनः । ततः प्रभृति [] यो मोहात् प्रर्मातपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः । यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्दत देवरः । यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात् सकृत् सकृदृतावृतौ” । वृहस्पतिना “उक्तो नियोगो मनुना निषिद्धः स्वयमेव हि” इत्यादिना तन्निषेधौक्तः । मिताक्षरायामप्ययं पक्षो द्व्यामुष्यायणप्रसङ्गे समर्थितः यथा “अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्य- सौ रिक्थी पिण्डदाता च धर्म्मतः” या० । “अपुत्रो गुर्वनुज्ञातः” इत्याद्युक्तविधिना अपुत्रेण देवरादिना पर- क्षेत्रे परभार्य्यायां गुरु नियोगेनोत्पादितःपुत्रौभयोर्वीज क्षोत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्म्मत इत्यस्यायमर्थः । यदाऽसौ नियुक्तोदेवरादिःस्वय- मप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तोयं जनयति स द्विपितृकोद्व्यामुष्यायणोद्वयोरपि ऋक्थहारी पिण्डदा- ता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणःपुत्रार्थं यतते तदा तदुत्पन्नः क्षेत्रिणएव पुत्रोभवतिन वीजिनः- सच नियमेन वीजिनोरिक्थहारी पिण्डदोऽपीति । यथोक्तंमनुना “क्रियाभ्युपगमात् क्षेत्रं वीजार्थं यत् प्रदी- यते । तस्येह भागिनौ दृष्टौ वीजी क्षेत्रिकएवचेति” । क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपि- भवत्विति संविदङ्गीकरणाद्यत् क्षेत्रं क्षेत्रस्वामिना वीजिने वीजवपनार्थं दीयते तस्मिन् क्षेत्रौत्पन्नस्यापत्यस्य वीज- क्षेत्रिणौ भागिनौ दृष्टौ महर्षिभिः । तथा । “फलं- त्वनभिसन्धाय क्षेत्रिणां वीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो वीजाद्योनिर्व लीयसीति” मनुः । “फलं त्वनभिसन्धायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वि- त्येवमनभिसन्धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिणएव । यतोवीजाद्योनिर्वलीयसी गवाश्वादिषु- तथादर्शनात् । अत्रापि नियोगोवाग्दत्ताविषयएव इ- तरस्य नियोगस्य मनुना गिषिंद्धत्वात् “देवराद्धा सपिण्डाद्धा स्त्रिया सम्यग्नियुक्तया । प्रजेस्पिताधिगन्तव्या सन्तानस्य परिक्षये । विधवायां नियुक्तस्तु घृताक्तोवाग्यतोनिशि । एकमुत्पादयेत्पुत्रं न द्वितीय कथञ्चन” इत्येवंनियोगमुपंन्यस्य मनुः स्वयमेव निषेधति । “नान्यस्मिन् विधवा नारी नियोक्तव्या द्वि
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षेत्रजः, पुं, (क्षेत्रे स्त्रीरूपक्षेत्रे गुर्व्वाद्यनुज्ञात- देवरादिशुक्रात् जायते इति । क्षेत्र + जन् + डः ।) स्वस्त्रियामन्यद्वारा जनितः पुत्त्रः । द्वादशविधपुत्त्रान्तर्गतपुत्त्रविशेषः । (यथाह मनुः । ९ । १६७ । “यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा । स्वधर्म्मेण नियुक्तायां स पुत्त्रः क्षेत्रजः स्मृतः ॥” द्वादशविधपुत्त्रा यथा तत्रैव । ९ । १५८--१६० । “पुत्त्रान् द्वादश यानाह नृणां स्वायम्भुवो मनुः । तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भदस्तथा । स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥”) स च देवरादिना भ्रात्रादिभार्य्यायां यथोक्त- विधानोत्पन्नः । यथा, -- “अपुत्त्रां गुर्व्वनुज्ञातो देवरः पुत्त्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ आगव्र्भसम्भवाद्गच्छेत् पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत् सुतः ॥” इति मिताक्षरायामाचाराध्यायः ॥ [] तत्पर्य्यायः । देवरादिजः २ । इति हेमचन्द्रः ॥ * ॥ तस्य पितृरिकथभागित्वं यथा, मनुः । ९ । १६५ । “औरसक्षेत्रजौ पुत्त्रौ पितृरिक्थस्य भागिनौ । दशापरे च क्रमशो गोत्ररिक्थांशभागिनः ॥” * अनियोगोत्यन्न क्षेत्रजस्य औरसेन सह विभाग- माह मनुः । ९ । १६२ । “यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यद्यस्य पैत्रिकं रिक्थं स तद्गृह्णीत नेतरः ॥” (अत्र कुल्लूकभट्टः । “यदीति । अपुत्त्रेण पर- क्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्म्मत इति याज्ञ- वल्क्योक्तविषये यदा क्षेत्रिकस्य पितुः क्षेत्रजा- नन्तरमौरसः पुत्त्रो भवति तदा तौ औरसक्षेत्रजौ एकरिक्थिनौ एकस्य पितुर्यद्यपि रिकथार्हौ भवतस्तथापि यद्यस्य जनकसम्बन्धि धनं तदेव स गृह्णीयात् न क्षेत्रजः क्षेत्रिकपितुः । यत्तु वक्ष्यति षष्ठन्तु क्षेत्रजस्यांशं प्रदद्यात् पैतृका- द्धनात् । औरसो विभजन् दायमिति तत्पुत्त्रवत् बीजिविषयम् । यत्तु याज्ञवल्क्येन उभयसम्बन्धि- रिक्थहरत्वमुक्तं तत् क्षेत्रिकपितुरौरसपत्त्रा- भावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तु औरसमनियुक्तापुत्त्रञ्च विषयीकृत्य इमं श्लोकं व्याचक्षाते । तन्न । अनियुक्तापुत्त्रस्याक्षेत्रजत्वात् अनियुक्तासुतश्चेत्यनेन तस्य रिक्थग्रहणनिषे- धात् यद्येकरिक्थिनौ इत्यनन्वयाच्च ॥”) एक- रिक्थिनौ एकस्यां जातौ रिक्थिनौ यस्य बीजाद्यो जातः स तस्य रिक्थं गृह्णीयात् । इतरोऽन्यबीजजो न गृह्णीयादित्यर्थः । स्त्रीधने यत्पितृदत्तं यद्धनं स्त्रियै तद्बीजजस्तद्धनं गृह्णीयात् नान्य इत्याह नारदः । “द्वौ सुतौ विवदेयातां द्बाभ्यां जातौ स्त्रिया धने । तयोर्यद्यस्य पित्र्यं स्यात् स तद्गृह्णीत नेतरः ॥” इति दायतत्त्वम् ॥ * ॥ कलौ क्षेत्रजपुत्त्रकरणनिषेधो यथा, आदित्य- पुराणे । “दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः । देवरेण सुतोपत्तिर्द्दत्तकन्या प्रदीयते ॥” इत्यादि । “दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः ।” इत्यादि । “एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ॥” इत्यादि च उद्बाहतत्त्वम् ॥ * ॥ क्षेत्रजाते त्रि ॥
📄 मूल मुद्रित पृष्ठ (2-259-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "क्षेत्रज" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬