🕉️ 20 November 2026, Friday · 12:55:22 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्षौर
kṣaura
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
बाल मुँडाना (2.7.53) भद्राकरण · मुण्डन · वपन
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्षौर संज्ञा पुं॰ [सं॰] हजामत ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षौर mfn. (fr. क्षुर), performed with a razor (with कर्मन्, ‘shaving’), VarBṛS. iic, 12
क्षौर m. = -मन्त्र, Sāy. on TS. i
क्षौर n. shaving the head, shaving in general (˚रं √ 1. कृ, to shave, Hit.; ˚रं, Caus. √ 1. कृ, to have one's self shaved, Hit.), Cāṇ.
📄 मूल मुद्रित पृष्ठ (333,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
क्षौरं Shaving. --री A razor.
📄 मूल मुद्रित पृष्ठ (0440-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षौर न० क्षुरेण निर्वृत्तम् अण् । १ क्षुरकर्म्मणि केशकर्त्तने । तत्र विहितनक्षत्रादि क्षुरकर्म्मशब्दे २३८६ पृ० उक्त- प्रायं विशेषोऽत्र कश्चिदभिधीयते “व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे । न करोति क्षौरकर्म अशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डेषु न- खादीनाञ्च सुन्दरि! । तदेव दिनमानावदंतद्भोजी दण्ड- ताडितः” व्रह्म वै० पु० २७ अ० । “चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरभेऽपि कर्त्तव्यं चन्द्रचन्द्र जयोर्द्दिने” ज्यो० त० । “मानं क्षौरे हन्तिगुरुः शुक्रं शुक्रो- धनं रविः । आयुरङ्गारको हन्ति सर्वं हन्ति शनैश्चरः” श्रीपतिरत्नमाला । “आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृत सूतकेषु च । बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” भोजदे० । “दवकार्ये पितृश्राद्धे रवेरंशपरिक्षये । क्षुरिकर्म न कुर्वीत जन्ममासे च जन्मभे” वृद्धगार्ग्यः, “केशवमावर्त्तपरं पाटलिपुत्त्रं पुरीमहिच्छत्राम् । दितिम दतिञ्च स्मरतां क्षौरविधौ भवति कल्याणम्” ज्यो० त० । अत्र क्रमो वराहपु० “श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्” ज्योति० त० । “केशश्मश्रुलोम- नखानि वापयीत शिखावर्ज्जम्” शु० त० गोभिलः । [] “रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च । मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् । कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् । रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत्” ब्रह्म० वै० पु० नापितगृहे क्षौरनिषधो यथा “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम्” कर्म्मलोचनः ।
📄 मूल मुद्रित पृष्ठ (2411-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्षौरं, क्ली, (क्षुरस्य कार्य्यं कर्म्म क्षुरकृतं कर्म्मेति भावः क्षुरस्येदं वा ।) क्षुरकर्म्म । कामान इति भाषा । तत्पर्य्यायः । मुण्डनम् २ भद्रकरणम् ३ वपनम् ४ परिवापनम् ५ । इति हेमचन्द्रः ॥ अस्य गुणः । “केशश्मश्रुनखादीनां कर्त्तनं संप्रसाधनम् ।” संप्रसाधनं पवित्रीकरणमिति यावत् । इति राजवल्लभः ॥ * ॥ व्रतादिसंयमे क्षौरकर्म्मा- करणे दोषो यथा, -- “व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे । न करोति क्षौरकर्म्म अशुचिः सर्व्वकर्म्मसु ॥ स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि ! । तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥ नित्यक्षौरविहितनिषिद्धदिनादि यथाह राज- मार्त्तण्डः । “न स्नानमात्रगमनोत्सुकभूषिताना- मभ्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्यानिशाशनिकुजार्कदिनेषु रिक्ते क्षौरं हितं प्रतिपदह्रि न चापि विष्ट्याम् ॥” * ॥ “प्राचीसुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौरमनुत्कटस्थः ॥ उत्तरात्रितययाम्यरोहिणी- रौद्रसर्पपितृभेषु चाग्निभे । श्मश्रुक्रर्म्म सकलं विवर्ज्जयेत् प्रेतकार्य्यमपि बुद्धिमान्नरः ॥” प्रेतकार्य्यं पतितप्रेतसंप्रदानकदासीघटदानविषय- कम् । अन्यथा वक्ष्यमाणवचनविरोधः स्यात् ॥ “चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने ॥ मानं हन्ति गुरुः क्षौरे शुक्रं शुक्रो धनं रविः । आयुरङ्गारको हन्ति सर्व्वं हन्ति शनैश्चरः ॥” * ॥ श्रीपतिरत्नमालायाम् । “आज्ञया नरपतेर्द्विजन्मनां दारकर्म्ममृतसूतकेषु च । ब्रन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु ॥ देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये । क्षुरिकर्म्म न कुर्व्वीत जन्ममासे च जन्मभे ॥” * ॥ वृद्धगार्ग्यः । [] “केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहिच्छत्रम् । दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्या- णम् ॥ * ॥” अत्र क्रमो वराहपुराणे । “श्मश्रुकर्म्म कारयित्वा नखच्छेदमनन्तरम् ॥” इति ज्योतिस्तत्त्वम् ॥ अपि च । गोभिलः । “केशश्मश्रुलोमनखानि वाप- यीत शिखावर्ज्जम् ।” इति शुद्धितत्त्वम् ॥ * ॥ अन्यच्च । “रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च । मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् ॥ कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् । रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥ नापितगृहे क्षौरनिषेधो यथा, -- “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥ रवौ दुःखं सुखं चन्द्रे कुजे मृत्युर्बुधे धनम् । मानं हन्ति गुरोर्व्वारे शुक्रे शुक्रक्षयो भवेत् ॥ शनौ च सर्व्वदोषाः स्युः क्षौरमत्र विवर्ज्जयेत् ॥” इति कर्म्मलोचनम् ॥ * ॥ * ॥ अथ प्रथंमक्षौरस्य चूडाकरणस्य विहित- दिनादि । ज्योतिषे । “अयुग्गाब्दे तथा मासि चूडा भौमशनीतरे । अर्केन्दकालशुद्धौ च जन्ममासेन्दुभेतरे । रिक्तादर्शाष्टमीषष्ठीप्रतिपद्वर्ज्जिते सिते ॥” दक्षोऽपि सामान्वतो दोषमाह । “षष्ठ्यष्टमी पञ्चदशी उभे पक्षे चतुर्द्दशी । अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥ मेषसिंहतुलाकर्किवृश्चिकेतरलग्नके । श्रवणादित्रयस्वातीचित्रापुष्याश्विचन्द्रभे ॥ आदित्यरेवतीहस्ता ज्येष्ठामूले च चौडकम् ॥ पौष्णाश्विपुष्यवसुरामकवासुदेव- ब्रह्मार्क्कचन्द्रवरुणादितिचित्रभेषु । वारेषु सोमबुधवाक्पतिभार्गवाणां क्षौरं करोति कुशलं खलु मानवानाम् ॥” इति वचनात् रोहिण्यामपि चूडाकरणम् । अत्रापि तिथ्यङ्गादिविद्धमृक्षं विवर्ज्जयेत् ॥ “सूर्य्ये दक्षिणमार्गगामिनि हरौ सुप्ते निरंशे रवौ क्षीणे शीतरुचौ महीज
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "क्षौर" आता है (4)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें