🕉️ 19 November 2026, Thursday · 02:40:13 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

खदिर
khadira
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
खदिर संज्ञा पुं॰ [सं॰]
१. खैर का पेड़ा ।
२. खैर । कत्था ।
३. चंद्रमा ।
४. इंद्र
५. एक ऋषि का नाम ।
खदिर १ वि॰ [सं॰] खैर का बना हुआ । खदिर से उत्पन्न । खदिर संबंधी [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
खदिर अस्, m. Acacia Catechu (having very hard wood, the resin of which is used in medicine, called Catechu, Khayar, Terra japonica), RV. iii, 53, 19; AV.; TS. &c.
N. of Indra, L.
the moon, L.
N. of a man g. अश्वादि
📄 मूल मुद्रित पृष्ठ (336,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
खदिरः [खद्-किरच्] 1 N. of a tree, Acacia Catechu; Y. 1. 302. --2 An epithet of Indra. --3 The moon. --Comp. --कुणः the fruit-time of the Khadira tree. --पत्रिका, --पत्री a sensitive plant. --सारः catechu.
📄 मूल मुद्रित पृष्ठ (0442-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
खदिर पु० खद--किरच् । (खएर) ख्याते १ वृक्षभेदे तस्य सारे स्थिरत्वात्तथात्वम् । २ इन्द्रे त्रिका० शत्रुहिंसकत्वात् तथात्वम् । खे आकाशे दीर्य्यते इष्टापूर्त्तकारिभिर्यतः दॄ--अपादाने किरच् । ३ चन्द्रे मेदि० । इष्टापूर्त्तकारि- भिर्हि चन्द्रमण्डलात् आरब्धास्मयदेहविदारेणाकाशे पततात् तस्य तथात्वं अवरोहशब्दे ४४० पृ० विवृतिः खदिरवृक्षभेदपर्य्यायगुणा भावप्र० उक्ता यथा “खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञिथः । खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् । तिक्तः कषायो मेदोघ्नः कृमि- मेहज्वरव्रणान् । श्विवशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् । खदिरः श्वेतसारोऽन्यः कदरः सोमवल्ककः । कदंरो विशदो वर्ण्यो मुखरोगकफास्रजित् । इरिमेदी विट्खदिरः कालस्कन्धोऽरिमेदनः । इरिमेदः कषायोष्णो मुखदन्तगदास्रजित् । हन्ति कण्डूविषश्लेष्मकृमिकुष्ठ विषव्रणान्” खदिररसादिविधानं सुश्रुते उक्तं यथा “अतः खदिरविधानमुपदेक्ष्यामः । प्रशस्तदेशजातमनुपहत मध्यमवयसं खदिरं परितः खानयित्वा सध्यममूलं छित्त्वायोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रस- ग्रहणसमर्थो भवति । ततस्तं गोमयमृदावलिप्तमवकीर्य्ये- न्धनैर्गोमयमिश्रैरादीपयेत् । यथास्य दह्यमानस्य रसो द्रवत्यधस्ताद्यदा जानीयात्पूर्णं भाजनमित्यथैवमुद्धृत्य परिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात् ततो यथायोगं मात्रामामलकरसमधुसर्पिभिः संसृज्योप युञ्जीत जीर्णे भल्लातकबिधानवदाहारः परिहारश्च । प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति ॥ खादेरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमव- तार्य्यानुगुप्तं निदध्यात् तमामलकरसमधुसर्पिर्भिः संसृ- ज्योपयुञ्जीत । एष एव सर्ववृक्षसारेषु कल्पः । खदिर- सारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुप- [] सेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः । अमृत- वल्लीस्वरसं क्वाथं वा प्रातःप्रातरुपसेवेत तत्सिद्धं वा सर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जी- तैवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत” इति । “कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारा- दिकषायस्य च त्रिफलात्रिकटुकरूषफलमज्जविडङ्गफल- सारचित्रार्क्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमघुका- तिविषारसाञ्जनप्रियङ्गूनां पालिकान् भागांस्तानैकध्यं स्नेह्यपाकविधानेन पचेत् तत्साधुसिद्धमवतार्य्य परिव्रा- व्यानुगुप्तं निदध्यात् तत उपसंस्कृत्य शरीरं प्रातः प्रात- रुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुखीत जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदक सिद्धं मृद्वोदनमश्नोयात् खदिरोदकसेवीत्येवं द्रोणमुप- युज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृगिमान् वर्षशतायुर- रोगो भवति” । खदिरवृक्षस्योत्पत्तिः श्रूयते । “प्रजा- पतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत” इत्युपक्रम्य “अस्थिभ्य एवास्य खदिरः समभवत् तस्मात् स दारुणो बहुसारोदारुणमिव ह्यस्थि तेनैवेनं तद्रूपेण समर्द्धयति अन्तरे वैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो बाह्यान्यस्थीनि” शत० ब्रा० १३ । ४ । ४ । ९ “विना खदिर- सारेण हारेण हरिणीदृशाम् । नाधरे जायते रागो- नानुरागः पयोधरे” उद्भटः । खदिरस्य विकारः अण् । खादिर खदिरवृक्षजाते त्रि० । “खादिरे पशुं बध्नवति खादिरं वीर्य्यकामस्य यूपं कुर्वीत” श्रुतिः । स्त्रियां ङीप् । “अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः । उडुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्” याज्ञ० उक्तेः तस्य सूर्य्यग्रहसमित्त्वम् । “अभावे खदिरविल्वरौहितकान्” “खदिराभावे सोम
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
खदिरः, पुं, (खद स्थैर्य्यहिंसयोः + “अजिर- शिशिरशिथिलेति ।” उणां । १ । ५४ । इति किरच् ।) वृक्षविशेषः । खयेरगाछ इति भाषा । तत्पर्य्यायः । गायत्त्री २ बालतनयः ३ दन्त- धावनः ४ । इत्यमरः । २ । ४ । ४९ ॥ तिक्तसारः ५ कण्टकीद्रुमः ६ । इति रत्नमाला ॥ बालपत्रः ७ खद्यपत्री ८ क्षितिक्षमः ९ सुशल्यः १० वक्र- कण्टः ११ यज्ञाङ्गः १२ जिह्वाशल्यः १३ कण्टी १४ सारद्रुमः १५ कुष्ठारिः १६ बहुसारः १७ मेध्यः १८ बालपुत्त्रः १९ रक्तसारः २० कर्कटी २१ जिह्वशल्यः २२ । इति जटाधरः ॥ कुष्ठ- हृत् २३ बालपत्रकम् २४ यूपद्रुमः २५ । इति शब्दरत्नावली ॥ अपि च भावप्रकाशे । “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च पाक्षिकः ॥ खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् । तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् । श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ॥” अस्य गुणाः । तिक्तरसत्वम् । शीतत्वम् । पित्तकफकुष्ठकासरक्तशोफकण्डुव्रणनाशित्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ विसर्पवेदना- मेहमेदोनाशित्वम् । इति राजवल्लभः ॥ * ॥ (अथ श्वेतखदिरः । पपरी खयेर इति भाषा ॥ “खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः । कदरो विशदो वर्ण्यो मुखरोगकफास्रजित् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे च ॥ खदति हन्ति शत्रून् इति । खद् + किरच् ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ (खे आकाशे दीर्य्यते यस्माच्चन्द्रलोकादिष्ट्यापूर्त्तादिकर्म्मिभिः । दृ + बाहुलकात् अपादाने किरच । इष्ट्या- पूर्त्तादिकर्म्मिणां हि आरब्धाम्मयदेहविदारेण चन्द्रमण्डलात् आकाशे पतनात् तथात्वम् ।) चन्द्रः । इति मेदिनी ॥ (तथा च साङ्ख्यदर्शनभाष्ये । “येन कर्म्मबृन्देन चन्द्रमसमारूढाः फलोप- भोगाय तस्मिन् उपभोगेन क्षयिते तेषां यद- म्मयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोग- क्षयदर्शनशोकाग्निसम्पर्कात् प्रलीयते सवितृ- सम्पर्कात् हिमकरका इव हुतभुगर्च्चिःसम्प- र्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्य इष्ट्यादेः कर्म्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति ॥”)
📄 मूल मुद्रित पृष्ठ (2-275-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "खदिर" आता है (7)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें