खन विदारे भ्वा० उभ० सक० सेट् । खनति ते--अखानीत्--अख- नीत् अखनिष्ट खायात्--खन्यात् । चखान चखतुः चखे, खातम् खनित्रं खेयम् । खनिता । खनित्वा--खात्वा खानः । खनितुम् । खनन् खनमानः । खायते खन्यते खनिः खनकः । [] “इमां खनाम्योषधिम्” ऋ० १० । १४५ । २१ । “अभ्रि- रसि नार्य्यसि त्वया वयमग्निं शकेम खनितुम्” यजु० । १० “त्वां गन्धर्वा अखनन्” यजु० १२, ९८ । “यथा खनन् खनित्रेण नरोवार्य्यधिगच्छति” मनुः । “अगस्त्यः खन- मानः खनित्रैः” ऋ० १, १७९६ । अभि + आभिमुख्येन सर्वतश्च खनने । “यो हीहामिखनेदप् एवाभिविन्देत्” शत० ब्रा० ११, १, ६, १६ । अव + अधःखनने । अवखनति अवखातः । आ + समन्तात् खनने आखरः आखनः आखुः । उद् + उत्पाटने “फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” (कलमाः) । “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः!” “वङ्गानुत्खाय तरसाउत्खातलोकत्रयकण्टकोऽपि” रघुः । नि + निधाने सक० “निचखान जयस्तम्भम्” वसु- धायां निचख्नतुः” “अष्टादशद्वीपनिखातयूपः” रघुः “विषादशङ्कुश्च मतौ निचख्ने” भट्टिः । निस् + निर् + निष्क्रामणे “समुद्रान्निरखनंस्तीक्ष्णाभि- रभ्रि भः” शत० ब्रा० ७ । ५ । २ । ५२ । परि + परितः खनने परिखा उत्पाटने च “कण्टकिक्षीरि- णस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्व० २ । ७५ वि + विशेषेण खनने । “यत्ते भूमिं विखनामि क्षिप्रं तदपि- रोहतु” अथ० १२ । १ । ३५ ।
📄 मूल मुद्रित पृष्ठ (2465-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।