खर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) खर्ब्बति । इति दुर्गादासः ॥
खर्ब्ब, क्ली, (खर्ब्ब + अच् ।) संख्याविशेषः । इति मेदिनी ॥ तत्तु दशाब्जसंख्या । इति लीलावती ॥ दशवृन्दसंख्या । १०,०००,०००,००० । इति स्मृतिः ॥ (सहस्रमहापद्मसंख्या । इति गोः रामायणम् । यथा, तत्रैव । ६ । ४ । ५६-५९ । “शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कीटिसहस्राणां शङ्ख इत्यभिधीयते ॥ शतं शङ्खसहस्राणां वृन्दमाहुर्मनीषिणः । शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् ॥ महावृन्दसहस्राणां शतं पद्मं परिश्रुतम् । शतं पद्मसहस्राणां महापद्मं विभाव्यते ॥ महापद्मसहस्राणां तथा खर्ब्बमिहोच्यते ॥”)
खर्ब्बः, पुं, (खर्ब्ब + अच् ।) कुवेरस्य निधि- विशेषः । इति शब्दरत्नावली ॥ दशवृन्दसंख्या । इति स्मृतिः ॥ कुब्जकवृक्षः । इति राजनिर्घण्टः । (वामनः । इत्यमरः । २ । ६ । ४६ ॥ स्त्री । गायत्त्रीस्वरूपा भगवती । यथा, देवीभाग- वते । १२ । ६ । ३८ । “खड् गखेटकरा खर्ब्बा खेचरी खगवाहना ॥”)
ख(र्व्व)र्ब्बः, त्रि, (खर्ब्ब + अच् ।) क्षुद्रः । खाटो छोट इत्यादि भाषा । तत्पर्य्यायः । न्यङ् २ नीचः ३ वामनः ४ ह्रस्वः ५ । इत्यमरः । ३ । १ । ७० ॥ निखर्व्वः ६ खदृतः ७ खर्व्वशाखः ८ । इति हेमचन्द्रः ॥ अनुच्चः ९ अनायतः १० । इति जटाधरः ॥
📄 मूल मुद्रित पृष्ठ (2-278-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।