गम्भारी, स्त्री, (कं जलं बिभर्त्ति इति । भृ + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् पृषो- दरात् कस्य गत्वे साधुः । यद्वा गच्छति प्राप्नोति सौन्दर्य्यमिति । गम् + विच् । गमं बिभ- र्त्तीति ।) वृक्षविशेषः । गामारी इति भाषा ॥ तत्पर्य्यायः । सर्व्वतोभद्रा २ काश्मरी ३ मधु- पर्णिका ४ श्रीपर्णी ५ भद्रपर्णी ६ काश्मर्य्यः ७ । इत्यमरः । २ । ४ । ३५ ॥ कार्श्मरी ८ । इति तट्टीका ॥ भद्रा ९ गोपभद्रिका १० कुमुदा ११ सदाभद्रा १२ कट्फला १३ कृष्णवृन्तिका १४ । इति रत्नमाला ॥ कृष्णवृन्ता १५ हीरा १६ सर्व्वतोभद्रिका १७ स्निग्धपर्णी १८ सुभद्रा १९ कम्भारी २० गोपभद्रा २१ विदारिणी २२ क्षीरिणी २३ महाभद्रा २४ मधुपर्णी २५ स्वरुभद्रा २६ कृष्णा २७ अश्वेता २८ रोहिणी २९ गृष्टिः ३० स्थूलत्वचा ३१ मधु- मती ३२ सुफला ३३ मेदिनी ३४ महा- कुमुदा ३५ सुदृढत्वचा ३६ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् । भ्रमशोथत्रिदोषविषदाहार्त्तिज्वरतृष्णास्रदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ एतत्फल- गुणाः । तिक्तत्वम् । गुरुत्वम् । ग्राहित्वम् । मधु- रत्वम् । केशहितत्वम् । रसायनत्वम् । मेध्य- त्वम् । शीतलत्वम् । दाहपित्तनाशित्वञ्च । एतन्मूलगुणौ । अत्युष्णत्वम् । मानसव्याधौ अहितकारित्वञ्च । इति राजवल्लभः ॥ तत्- पर्य्यायगुणाः । “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत- रोहिणी ॥ कृष्णवृन्ता मधुरसा महाकुमुदिकापि च । काश्मरी तुवरा तिक्ता वीर्य्योष्णा मधुरा गुरुः ॥ दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् । दोषतृष्णामशूलार्शोविषदाहज्वरापहा ॥ तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् । वातपित्ततृषारक्तक्षयमूत्रविबन्धहृत् ॥ स्वादु पाके हिमं स्निग्धं तुवराम्लं विबुद्धिकृत् । हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ॥” इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-306-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।