🕉️ 20 November 2026, Friday · 02:47:11 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गतायुस
gatāyusa
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गतायुस त्रि० गतं गतप्रायमायुर्जीवनकालोऽस्य । १ प्राप्त- चरमकाले, गतायुर्लक्षणं सुश्रुतेनोक्तं यथा “शरीरशीलयोर्यस्य प्रकृतेर्व्विकृतिर्भवेत् । तस्यारिष्टं स- मासेन व्यासतस्तु निबोध मे । शृणोति विविधान् शब्दान् यो दिव्यानामभावतः । समुद्रपूरमेघानाम- सम्पत्तौ च निःस्वनान् । तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् । ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोत्यपि । द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति । न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् । यस्तूष्ण- मिव गृह्लाति शीत, मुष्णञ्च शीतवत् । सञ्जातशीतपिडको यश्च दाहेन पीड्यते । उष्णगात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते । प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा । पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते । वर्ण्णान्य- भावराज्यो वा यस्य गात्रे भवन्ति हि । स्नातानु- लिप्तं यञ्चापि भजन्ते नीलमक्षिकाः । सुगन्धिर्वाति योऽकस्मात्तं ब्रुवन्ति गतायुषम् । विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् । उपयुक्ताः क्रमाद्यस्य रसा [] दोषाभिवृद्धये । यस्य दोषाग्निसाम्यञ्च कुर्थ्युर्म्मिथ्योप- योजिताः । यो वा रसान्न संवेत्ति गतासुं तं प्रच- क्षते । सुगन्धिं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् । गृह्णीते योऽन्यथा गन्धं शान्ते दीपे च नीरुजः । यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् । द्वन्द्वा- न्युष्णहिमादीनि कालावस्था दिशस्तथा । विपरीतेन गृह्णाति भावानन्यांश्च यो नरः । दिवाज्योतींषि यश्चापि ज्वलितानीव पश्यति । रात्रौ सूर्य्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् । अमेघोपप्लवे यश्च शक्रचाप- तडिद्गुणान् । तडित्वतोऽसितान् यो वा निर्मले गगने घनान् । विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् । यश्चा- निलं मूर्त्तिमन्तमन्तरीक्षञ्च पश्यति । धूमनीहारवासो- भिरावृतामिव मेदिनीम् । प्रदीप्तमिब लोकञ्च यो वा प्लुतमिवाम्भसा । भूमिभष्टापदाकारां लेखाभिर्य्यश्च पश्यति । न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् । ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् । ज्योत्स्ना- दर्पणतोयेषु छायां यश्च न पश्यति । पश्यत्येकाङ्ग- हीनां वा विकृतां वाऽन्यसत्वजाम् । श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् । पिशाचोरगनागानां भूतानां विकृतामपि । यो वा मयूरकण्ठाभं विधूमं वह्निमी- क्षते । आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ।” अधिकं कालचिह्नशब्दे १९९६ पृ० उक्तम् ।
📄 मूल मुद्रित पृष्ठ (2514-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें