🕉️ 19 November 2026, Thursday · 06:15:12 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गलगंड
galagaṃḍa
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गलगंड २ † संज्ञा पुं॰ [देश॰] हरगीला नाम की चिड़िया ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गल—गण्ड in comp. neck and cheek, MBh. ii, 902
गल—गण्ड m. goitre, Suśr. i ff.; Dhūrtas. ii, 11
= गण्ड-माला, L.
📄 मूल मुद्रित पृष्ठ (350,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गलगण्ड पु० ७ त० (गरगण्ड) । रोगभेदे । तल्लक्षणादि यथा “निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले । महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् । निबद्धो दृढः अचलो वा । मुष्कवत् अण्डवत् । गले इति हनुम- न्ययोरुपलक्षणम् । तथा च भोजः “महान्तं शोथ- मल्पं वा हनुमन्यागलाश्रयम् । मुष्कवल्लम्बमानं तु गलगण्ड विनिर्दिशेत्” संप्राप्तिमाह वातः कफ- श्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः । कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः । क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः । तत्र वातिकमाह । तोदान्वितः कृष्णासरावनद्धः श्यावा- रुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् । वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः । चिरवृद्ध्य- पाकः चिरेण वृद्धिरपाकश्च यस्य सः । श्लैष्मिकमाह स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि क- फात्मकस्तु । चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते मन्दरुजः कदाचित् । माधुर्य्यमास्यस्य च तस्य जन्तो- र्भवेत्तथा तालुगले प्रलेपः । कदाचित् प्रपच्यते वा पाकोऽपि चिराद्भवति । प्रलेषः श्लेष्मणा । मेदोज माह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितः कण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानु रूपक्षयवृद्धियुक्तः । स्निग्धास्यता तस्य भवेच्च जन्तो र्गलेन शब्दं कुरुते च नित्यम् । देहक्षये काश्ये क्षयं, देहवृद्धौ वृद्धिं यातीत्वर्थः । असाध्यमाह “कृच्छ्रा- च्छ्र्वसन्तं सृदुसर्वगात्रं संवत्सरातीतमरोचकात्तेम् । [] क्षीणञ्च वैद्यो गलगण्डयुक्ते भिन्नस्वरं नैव नर चिकि- त्सेत्” भावप्र० । “यवमुद्गषटोलानि कटुरूक्षञ्च भोज- नम् । छर्द्दिं सरक्तमोर्क्षा च गलगण्डे प्रयोजयेत्” चक्रद० ।
📄 मूल मुद्रित पृष्ठ (2562-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गलगण्डः, पुं, (गले गण्डः स्फोटक इव ।) गल- रोगविशेषः । गरगण्ड इति भाषा ॥ अथ गल- गण्डाधिकारः । तत्र गलगण्डस्य सामान्यं लिङ्गमाह । “निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले । महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥” निबद्धो दृढः अचलो वा । मुष्कवत् अण्डवत् । गल इति हनुमन्ययोरुपलक्षणम् । तथा च भोजः । “महान्तं शोथमल्पं वा हनुमन्या गलाश्रयम् । मुष्कवल्लम्बमानं तु गलगण्डं विनिर्द्दिशेत् ॥” * ॥ संप्राप्तिमाह । “वातः कफश्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः । कुर्व्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ॥” क्रमशः शनैः शनैः ॥ स्वलिङ्गैः वातकफमेदो- लक्षणैः ॥ * ॥ वातिकमाह । “तोदान्वितः कृष्णशिरावनद्धः श्यावारुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् ॥ वैरस्यमास्यस्य च तस्य जन्तो- र्भवेत्तथा तालुगलप्रशोषः ।” चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः ॥ श्लैष्मिकमाह । “स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु । चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते मन्दरुजः कदाचित् ॥ माधुर्य्यमास्यस्य च तस्य जन्तो- र्भवेत्तथा तालुगलप्रलेपः ।” कदाचित् प्रपच्यते वा पाकोऽपि चिराद्गवति ॥ प्रलेपः श्लेष्मणा ॥ * ॥ [] मेदोजमाह । “स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतो रुजश्च । प्रलम्बतेऽलावुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ॥ स्निग्धास्यता तस्य भवेच्च जन्तो- र्गलेन शब्दं कुरुते च नित्यम् ।” देहक्षये कार्श्ये क्षयं देहवृद्धौ वृद्धिं यातीत्यर्थः ॥ * ॥ असाध्यमाह । “कृच्छ्राच्छसन्तं मृदुसर्व्वगात्रं संवतसरातीतमरोचकार्त्तम् । क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ॥” * ॥ अथ गलगण्डचिकित्सा । “सर्षपान् शिग्रुबीजानि शणबीजातसीयवान् । मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥ गलगण्डो गण्डमाला ग्रन्थयश्चैव दारुणाः । प्रलेपादस्य नश्यन्ति विलयं यान्ति सत्वरम् ॥ १ ॥ रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना । लेपनं गलगण्डस्य चिरोत्थस्यापि नाशनम् ॥ रक्षोघ्नः सर्षपः ॥ २ ॥ श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः । सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥ ३ ॥ तिक्तालावुफले पक्वे सप्ताहमुषितं जलम् । सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यानुसेविनाम् ॥ ४ ॥ तैलं पिबेच्चामृतवल्लिविम्बा हिंस्राह्वयावृक्षकपिप्पलीभिः । सिद्धं बलाभ्यां सह देवदारु हिताय नित्यं गलगण्डरोगी ॥ वृक्षकोऽत्र तुणिः । उक्तञ्च निघण्टौ धन्वन्तरिणा । ‘तुणिस्तुणी कपीतस्तु नन्दिवृक्षोऽथ वृत्त्रकः ।’ बलाभ्यां बलातिबलाभ्यांम् । अमृतादितैलम् ॥ ५ ॥ यवमुद्गपटोलादिकटुरूक्षान्नभोजनम् । वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ॥ ६ ॥ दापयेद्गलगण्डे तु प्रच्छन्नानि बहूनि च । गण्डगोपालिकां पिष्ट्वा तत्र लेपं प्रकल्पयेत् ॥ अवश्यं नश्यति क्षिप्रं गलगण्डो गदोऽमुना । प्रलेपस्त्वनुभूतोऽयं बहुधा बहुभिर्ज्जनैः ॥ प्रच्छन्नानि पछना इति लोके । गण्डगोपालिका गण्डगुया इति लोके प्रसिद्ध आम्रवाटिकायां सुलभः कीटविशेषः ॥ ७ ॥ लवणं जलकुम्भ्यास्तु कणाचूर्णेन संयुतम् । प्रभाते नित्यमश्नीयात् गलगण्डप्रशान्तये ॥” ८ ॥ इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-318-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गलगंड" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें