🕉️ 20 November 2026, Friday · 02:53:21 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गवामयन
gavāmayana
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गवामयन संज्ञा पुं॰ [सं॰] प्राचीन काल का एक प्रकार का यज्ञ जो एक वर्ष में समाप्त होता था । दस या बारह महीने में पूरा होनेवाला एक वैदिक यज्ञ ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गवाम्—अयन n. id., AitBr. iv, 17; ĀśvŚr.; KātyŚr.; MBh. iii, 8080.
📄 मूल मुद्रित पृष्ठ (351,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गवामयन न० दशमाससाध्ये द्वादशमाससाध्ये च सत्रभेदे तद्विवृतिः ता० ब्रा० ४ अध्यायादौ । तत्र ताण्ड० ब्रा० ४ अ० भाष्ये तस्य द्वैविध्यमुक्त्वा तत्रा- हानि यथा कत्तव्यानि तथोक्त्वा तच्छब्दप्रवृत्तिनिमित्त- ज्ञानाय श्रुतिमवतारयन् व्याचख्यो यथा “स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात् । गायाम- यनिकानां च ता एवेत्यवगम्यते । शतानि त्रीणि षष्टिश्च विषुवांश्च चतुर्थके । प्रोक्तानि गव्यपत्रस्य स्तुत्याहानि क्रतादिह । तानि संगृह्य वक्ष्यत्ते बुद्धिव्युत्पत्तिसिद्धये । द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्च तस्य द्वादशमासनिर्वत्यस्य प्रायणोयोऽतिरात्रः प्रथममह- स्तवश्चतुर्विंशं उक्थ आरम्भणीयः ते उभे अहनी अनु- ष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरित्याभिप्लविकः षडहः स चतुर्यारमावर्त्तनीयः ततस्त्रिवृदादिसोमसुत्यकसाध्यः पृष्ठ्यः षडहः एवं पञ्चभिः षडहैरेको भासः पूर्य्यते एत- स्यैवावर्त्तनेन पञ्च मासाः सम्पाद्याः तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षडहाः कार्य्याः ततः एकः पृष्ठ्यः षडहः ततोभिजिदेकमहः त्रयः स्वरसामान इत्येबमष्टाविंशत्य- हानि आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम् । इत्यं पूर्वपक्षे अशीत्युत्तरशतसंख्यान्यहानि सम्पन्नानि । ततो विषुवमेकमहः सोऽस्य सत्रस्य प्रधानभूतः । सप्तमे [] मास्यादो त्रयः स्वरसामानः प्रतिलोमाः कार्य्याः । ततो विश्वजिदावृत्तः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमः ततस्त्रयोऽभिप्लवाः षडहाः आवृत्ताः एवमष्टाविं- शत्यहानिं स्युः अस्य च मासस्य महाव्रतातिरात्रौ च ततोभिधास्यमानौ पूरकौ स सप्तमो मासः । ततः पृष्ठ्यः षडहःपूर्वोक्तैश्चतुर्मिराभिप्लविकैः प्रतिलोमक्रमेणानुष्ठितैः- रष्टमोमासः अनयावृत्त्या नवमदशमैकादशा अपि स- म्पाद्याः द्वादशनासस्यादौ त्रयोभिप्लवाः, षडहः ततो गोरायुयी द्वे अहनी द्वादशाहस्य दशाहानि चेति त्रिंशाहानि स द्वादशो मासः ततो महाव्रतमुपान्त्यमहः तेन उदयनीयातिरात्रौ इत्यपि सप्तममासस्य पूरकाविति तदेतद्गवामयनसत्रं विधास्यन् तन्नामनिर्वचनप्रदर्शनाया दावाख्यायिकामाह” भा० “गवो वा एतत् सत्रमासत तासां दशसु मास्सु शृङ्गा- ण्यजायन्त ता अब्रुवन्नरात्स्मोत्तिष्ठामौपशा नोऽज्ञतेति ता उदतिष्ठन्” ता० ब्रा० ४ । १ । १ । “पुरा खलु गावः एतत्- संवत्सरसत्रमासत अन्वतिष्ठन् आसचोदना अपरचोदना च तत्र लिङ्गमिति मीमांसकाः । अत्रासरूपपूर्वतिथे चानुष्ठाने ये वर्त्तन्ते तदन्यैरनुष्ठितम् अत इदं गवामयनमित्याचक्षते तासां सत्रस्थितानां मध्ये कासा- ञ्चिद्गवां दशसु माःसु मासेषु पद्दन्मासीत्यादिना मासशब्दस्य मास्भावः तेष्वनुष्ठितेषु शृङ्गाण्यजायन्त ता जातशृङ्गा अब्रुवन् परस्परमुक्तवत्यः किमिति अरातस्म समृद्धा अभूम अतोवयमुत्तिष्ठामसत्रं ससापयाम अरात्- स्मेति तदुक्तं तर्ह्याचष्टे । ओपशाः आ अभितः शिरः प्रदेशमुपेत्य शेरन्ते इत्योपशाः शृङ्गाणि अज्ञत जा- तान्यभूवन्निति सम्बन्धः अज्ञतेति जनी प्रादुर्भाः इत्यस्मात् लुङि बहुवचने “मन्त्रे झलीत्यादिना च्ले रङि गमहनजनेत्युपघालोपे रूपम् । एवसुक्त्वा ता गावः सत्रादुदतिष्ठन् । ताभिरेवं दशभिर्मासैः फलस्य प्राप्तेर्दशमा- सनिर्वर्त्यमपि गवामयनमस्तीत्युक्तं भवति” भा० । द्वादशमा- सनिर्वर्त्यमप्यस्तीति दर्शयति । “तासान्त्वेवाब्रुवन्नासामहा एवेमौ द्वादशौ मासौ सं संवत्सरमापयामेति तासान्द्वा दशसु माःसु शृङ्गाणि प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतास्तूपरास्तस्मात्ताः सर्वान्धादश मासः प्रेरते सर्वं हि ता अन्नाद्यमाप्नुवन्” ता० ब्रा० । “तुशब्दो वैलक्षण्य- द
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें