गुर्व्विणी, स्त्री, (गर्व्वति कुक्षौ सन्तानमपत्यमित्यर्थः प्राप्नोति धारयतीति यावत् । गर्व्वगतौ “गर्व्वे- रत उच्च ।” उणां । २ । ५४ । इति उत् इनन् च गौरादित्वात् ङीष् । गर्व्वयति मुञ्चतीत्येके । यद्वा गुरुर्गुरुभारयुक्तो गर्भोऽस्त्यस्याः अपत्य- धारणात्तथात्वम् । गुरु + “व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) गर्भिणी । इत्यमरः । २ । ६ । २२ ॥ (यथा, मार्कण्डेये । २७ । २० । “बन्धकीपद्मशरभशूलिकागुर्व्विणीस्तनात् । प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥” यथाऽस्याः पथ्यापथ्यनियमः । यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः । वर्ज्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च ॥ अम्लानि सोष्णक्षीराणि गुर्व्विणीनां विवर्ज्जयेत् । मृत्तिका भक्षणीया न न च शूरण्कन्दकाः ॥ रसोनश्च पलाण्डुश्च सन्त्यज्यो गुर्व्विणीस्त्रिया । शूरणानि प्रदेयानि गौल्यानि सरसानि च ॥ पथ्ये हितानि त्तैतानि गुर्व्विणीनां सदा भिषक् । व्यायामं मैथुनं रोषं शौर्य्यञ्चंक्रमणन्तथा ॥ वर्ज्जयेद्गुर्व्विणीनाञ्च जायन्ते मुखसम्पदः ॥” इति हारीते तृतीयस्थानेऽष्टचत्वारिंशेऽध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-341-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।