🕉️ 24 November 2026, Tuesday · 12:44:53 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

गर्भिणी
garbhiṇī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
गर्भिणी वि॰ स्त्री॰ [सं॰] जिसे गर्भ हो । गर्भवती । पेटवाली । यौ—गर्भिणी अवेक्षण= गर्भवती की देखभाल । गर्भिणी दोहद = गर्भवती की लालसा या रुचि । गर्भिणी व्याकरण, गर्भिणीव्याकृति = गर्भ के विकासक्रम यका विज्ञान । आयुर्वेद शास्त्र को एक अंग ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गर्भिणी f. of ˚र्भिन्, q.v.
📄 मूल मुद्रित पृष्ठ (350,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
गर्भिणी A pregnant female (whether of men or animals); गोगर्भिणी प्रियनवोलपमालभारेसेव्योपंकठविपिनावलयो भवंति Māl. 9. 2; Y. 1. 105; Ms. 3. 114. --Comp. --अवेक्षणं mid-wifery, care and attendance of pregnant women and newborn infants, --दौहदं the longings of a pregnant woman. --व्याकरणं, --व्याकृतिः f. ‘science of the progress of pregnancy’, (a particular head in medical works.)
📄 मूल मुद्रित पृष्ठ (0454-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
गर्भिणी स्त्री गर्भोऽस्त्यस्याः इनि ङीप् । गर्गवत्यां सगमोयां [] स्त्रियाम् अमरः । गर्भिणीलिङ्गं गर्भवतीशब्दे उक्तम् । गर्भिणीतत्पतिकृत्याकृत्यादि नि० सि० उक्तं यथा “गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम् । व्या- यामं शीघ्रगमनं शकटारोहणं त्यजेत् । शोकं रक्तवि- विमोक्षं च साध्वसं कुक्कुटाशनम् । व्यवायं च दिवा- स्वप्नं रात्रौ जागरणं त्थजेत्” कश्य० । मदनरत्ने स्कान्दे “हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा । कूर्पा- सकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसस्कारक- बरोकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्ग- र्भिणी न हि” वृहस्पतिः “चतुर्थे मासि षष्ठे वाप्य- ष्टमे गर्भिणी यदा । यात्रा तया विवर्ज्या स्यादाषा- ढे तु विशेषतः” याज्ञवल्क्यः “दौहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात् कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम् । त- त्रैवाश्वलायनः “वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणी पतिः । श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित् । श्राद्धं तद्भोजनमिति । प्रयोगपारिजातः । कालविधाने मूहूर्त्तदीपिकायाञ्च “क्षौरं शवानुगमनं नखकृन्तनं च युद्धादि वास्तुकरणं त्वतिदूरयानम् । उद्वाहमौपनयनं जलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापती- नाम्” रत्नसंग्रहे गालवः “दहनं वपनञ्चैव चौलं वै गिरिरोहणम् । नाव आरोहणं चैव वर्जयेद्गर्भि- णीपतिः” अन्यत्रापि “प्रव्यक्तगर्भापतिरब्धियानं मृतस्य बाहं क्षुरकर्मसङ्गम् । तस्यानुयत्नेन गयादितीर्थं या- गादिकं वास्तुविधिं न कुर्य्यात्” । प्रव्यक्तगर्भा वनिता भवेन्मासत्रयात् परम् । (मासत्रयादूर्द्धम्) षण्मासात् परतः सूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः “रोहि- ण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि । पुनर्वसौ पुष्यहस्त- धनिष्ठात्र्युत्तरासु च । मैत्रे त्वाष्ट्रे तथाश्विन्यां सूति- कागारवेशनम्” एतच्च सम्भवे “प्रसूतिसमये काले सद्य एव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम् “वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेः विष्णुधर्मे “दशाहं सूतिकागारमायुधैश्च विशेषतः । वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः । सुयत्नेन तथा वारिवर्णक्वैश्चित्रितेन चेति” । “गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः” मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम् । [] अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा “सुवासिनीः कुमारांश्च रोगिणोगर्भिणीस्तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयत्” । “बालं सुवासिनीवृद्ध- गर्भिण्यातुरकांस्तथा । “संभोज्यातिथिभृत्यांश्च दम्पत्यो शेषभोजनम्” याज्ञ० । जात्या सह क्वर्म्म० अस्य परनि- पातः । गोगर्भिणी ।
📄 मूल मुद्रित पृष्ठ (2560-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
गर्भिणी, स्त्री, (गर्भोऽस्त्यस्याम् । गर्भ + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि ततो ङीप् ।) गर्भवती । इत्यमरः । २ । ६ । २२ ॥ पोयाति इति भाषा ॥ (यथा, मनुः । ३ । ११४ । “सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥” अस्याः कर्त्तव्यतामाह कश्यपः । यथा, -- “गर्भिणी कुञ्जराश्वादिशैलहर्म्म्यादिरोहणम् । व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥ [] शोकं रक्तविमोक्षञ्च साध्वसं कुक्कुटाशनम् । व्यवायञ्च दिवास्वप्नं रात्रौ जागरणं त्यजेत् ॥” तथा, मदनरत्ने स्कान्दे । “हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा । कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् ॥ केशसंस्कारकवरीकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्गर्भिणी न हि ॥” बृहस्पतिरप्याह । “चतुर्थे मासि षष्ठे वाप्यष्टमे गर्भिणी यदा । यात्रा तया विर्वज्या स्यादाषाढे तु विशेषतः ॥” गर्भिणीपतिकरणीयतामाह याज्ञवल्क्यः । “दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्माद्कार्य्यं प्रियं स्त्रियाः ॥” आश्वलायनः । “वपनं मैथुनं तीर्थं वर्ज्जयेद्गर्भिणीपतिः । श्राद्धञ्च सप्तमान्मासादूर्द्धं चान्यत्र वेदवित् ॥” कालविधाने मुहूर्त्तदीपिकायाम् । “क्षौरं शवानुगमनं नखकृन्तनञ्च युद्धादिवास्तुकरणं त्वतिदूरयानम् । उद्वाहमौपनयनं जलधेश्च गाह- मायुः क्षयार्थमिति गर्भिणिकापतीनाम् ॥” रत्नसंग्रहे गालवोऽपि । “दहनं वपनञ्चैव चौलं वै गिरिरोहणम् । नाव आरोहणञ्चैव वर्ज्जयेद्गर्भिणीपतिः ॥” गर्भिण्या यदयत् लक्षणं जायते तदाह, -- “क्षामता गरिमा कुक्षौ मूर्च्छा च्छर्द्दिररोचकः । जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम् ॥ अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ । पादशोफो विदाहोऽन्ये श्रद्धाश्च विविघात्मिकाः ॥ मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत् । सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविधारणम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥ “समानयोगक्षेमा हि माता तदा गर्भेण केषु- चिदर्थेषु तस्मात् प्रियहिताभ्यां गर्भिणीं विशे- षेणोपचरन्ति कुशलाः । तस्यागर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः । उपचारासम्बाधनं ह्यस्या ज्ञाने दोषज्ञानञ्च लिङ्गतस्तस्मादिष्टो लिङ्गोप- देशस्तद्यथार्त्तवादर्शनमास्यसंस्रवणमनन्नाभि- लाषः छर्द्दिररोचकोऽम्लकामता विशेषेण । श्रद्धाप्रणयनञ्चोच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तन- मण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीष- ल्लोमराज्या योन्याश्च जालत्वमिति गर्भे पर्य्या- गते रूपाणि भवन्ति । सा यद्यदिच्छेत्तत्तस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः । गर्भोप- घातकरास्त्विमे भावास्तद्यथा, -- सर्व्वमति गुरूष्णतीक्ष्णदारुणाश्च चेष्टा इमांश्चान्यानुप- दिशन्ति वृद्धाः । देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि विभृयान्न मदकराणि चाद्या- न्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्व्वे- न्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्ज्जयेत् ।” [] चतुर्थे मासि स्थिरत्वमापद्यते गर्भस्तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण । पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण । षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिक- मन्येभ्यो मासेभ्यस्तस्मात्तदा गर्भिणी बलवर्ण- हानिमापद्यते विशेषेण । सप्तमे मासि गर्भः सर्व्वभावैराप्यायते सहसा तस्मात्तदा गर्भिणी सर्व्वाकारैः क्लान्ततमा भवति । अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता रसग्रहणी
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "गर्भिणी" आता है (12)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬